________________
त्वया यदर्थं स्मृतोऽस्मि तन्निवेदय । ततः सा मुक्तकायोत्सर्गा स्वकृतं कर्म जगाद । देवः प्राह-भो मुग्धे! त्वया अविचार्य कार्यं कृतं । यतस्त्वया द्वात्रिंशद्गुटिकाः समकालं भुक्ताः तेन तव द्वात्रिंशत् पुत्राः समकालं मवि - व्यन्ति । यदैकः पुत्रो मरिष्यति तदा द्वात्रिंशत् पुत्रा मरिष्यन्ति । यदि पृथक् पृथक् गुटिकास्त्वं प्राक्षीस्तदा | पृथक् पृथक् द्वात्रिंशतं पुत्रानजीजनः । ततो खुलसा जगौ - जीवेन यत् कर्म कृतं शुभाशुभं बद्धं वा तत्तचैव मुज्यते । यतः- “संसारवासे कृतकर्मणोऽत्र, मुद्द्रप्रविष्टैरपि मुच्यते न । नो चेत् पराक्षः सलिलान्तरेकस्तम्भस्थसौधेऽपि कथं । विपन्नः ? ॥ १ ॥ यन्नैव भाव्यं भवतीह तन्न, तन्नान्यथा यस्य यदस्ति भाव्यम् । प्रत्यक्षमेकस्य यतोऽस्ति लाभः, छेदः परस्यैव ततो यतः स्यात् ॥ २ ॥ सम्पद्यते सैव मतिर्जनानां तादृक्सहाया अपि सम्भवन्ति । यादृक्स्वरूपा भवितव्यताऽस्ति नो चेत्कथं दीव्यति धर्मजोऽपि ? ॥ ३ ॥ गुणाभिरामो यदि रामभद्रो, राज्यैकयोग्योऽपि वनं जगाम । विद्याधरः श्रीदशकन्धरचेत्, प्रभूतदारोऽपि जहार सीताम् ॥ ४ ॥ ततो भो हरिगयेषिन् । किं क्रियते मया अविमृश्य कार्यमेतत् कृतम् । यदि च ममानुकूलं कर्मास्ति तब च शक्तिरस्ति तदा त्वं ममोदरव्यथां प्रशमय । नो चेदहं स्वकृतं कर्म भोक्ष्ये । यदि त्वमिमां व्यथामुपशमयेस्तदा जिनशासनोन्नतिर्भवति ।
Jain Educatomational
For Private & Personal Use Only
www.jainelibrary.org