________________
पदि सुखे च समक्रियं यदेतत् त्रयं जगति पुण्यकृतो लभन्ते ॥ ३ ॥ ध्यात्वेति सुलसा दानशौण्डा साधुद्वयं प्रणम्य खं कृतार्थ मन्यमाना कृताञ्जलिर्व्यजिज्ञपत्-भो यतीश ! त्वदागमनेनेदं मदीयं गृहं पवित्रितं, यत्कायं भवति तन्निवेद्यताम् । यतिः प्राह-त्वदीयगृहे लक्षपाकतैलकुम्भाः श्रुताः। साधवो ग्लानाः सन्ति बहवः । तेषां चिकित्साकरणार्थं तैलं विश्राणय । ततो हृष्टा तैलकुम्भमेकं गृहाबहिर्दातुं यावन्निनाय तावत्तेन देवेनापररूपकरणेनादृश्यरूपेण कुम्भो भूमौ पातितो भग्नश्च । एवं सुलसया समानीतो | द्वितीयो तृतीयश्चतुर्थः कुम्भो भग्नः । ततो देवः सुलसामनः खेदरहितं ज्ञानेन ज्ञात्वा प्रकटीभूय
प्राह-त्वमेव धन्याऽसि । इन्द्रेण यादृशं धर्मस्थिरताकीर्तनं तावकं सभामध्ये वर्णितं तादृशं मया दृष्टमद्य ।। IN| अहं हरिणेगमेषी सुरः त्वां परीक्षितुमागाम्। तुष्टोऽस्म्यहं । वरं वृणु। ततःसा जगौ-सुरेन्द्रचमूपते! त्वं ज्ञानेन
मन्मनोभवं मनोरथं जानीषे । ततः सहर्षः सुरो द्वात्रिंशद्गुटिकास्तस्यै वितीर्य प्राह-त्वयैकैका गुटिका भक्षणीया। घटा(गच्छ)न् (स्वरूपं)प्रकृटीकृत्य प्राह-तव गुटिकाप्रभावाद्वात्रिंशत् सुता भविष्यन्ति । गरीयस्यन्तरायिके [भूते] समागते त्वया स्मरणीयोऽहं यथा तवोत्पन्नविनं पिनष्मि, एवमुक्त्वा सुरो विद्युदिव तिरोदधे । पुनर्जिना -
Jain Education
For Private Personel Use Only
elibrary.org