________________
॥ श्रीभरतेश्वरवृत्ती साध्यधि
कारे
॥ २५० ॥
Jain Education
मुक्त्वाऽन्यत्र रतिं कुर्वते । यतः - " वरं कुलं प्रेम परस्परं च दीर्घं तथाऽऽयुः पटुता च देहे । अभीष्टसङ्गव गुणानुरागः, सत्पुत्रलाभः प्रभुता च लोके ॥ १ ॥ लक्ष्मीः खगेहे वदने च वाणी, शौर्यं च बाहौ खकरे च दानम् । सौभाग्यमङ्गे हृदये सुधीश्च, कीर्तिश्च दिक्षूज्वलधर्मतः स्यात् ॥ २ ॥ रे चित्त ! खेदं किमुपैषि नित्यं दृष्ट्वाऽन्यव - स्तूनि मनोहराणि ? । धर्मं कुरुष्वाशु यदीच्छसीष्टं, धर्मं विना नैव समीहितं स्यात् ॥ ३ ॥ एवं विचिन्त्य सुलसा | विशेषतो धर्मकर्मपरा पुत्रार्थिनी जिनाच चकार । दानं च चतुर्विधाहारसहितं सत्पात्रेभ्यो दत्ते स्म । ब्रह्मचर्य - भूशयनाचाम्लानि कुरुते स्म । इतस्तस्याः सच्वमवधिज्ञानेनावगम्येन्द्रः सुलसां प्रशशंस - अधुना सुलसा श्राविका स्वधर्मकृत्यात् केनापि न चाल्यते । तदा शक्रवचनं श्रुत्वा हरिणेगमेषी सुरः सुलसापरीक्षार्थं स्वर्गाच्चचाल । | स देवः साधुद्वयरूपं विधाय नागगृहे समागात् । तत्साधुद्वयमागच्छत् दृष्ट्वा सुलसा समुत्तस्थौ । दध्याविति | चित्ते - पुराणपापग्रसनैकहेतुरुच्चैर्भविष्यत्फललाभवक्ता । नाभव्यगेहं खलु सर्वतीर्थमयोऽतिथिः पावयति क्रमाभ्याम् ॥ १ ॥ मनुष्यतायाः फलमेतदेव, यत् संविभागः क्रियतेऽतिथीनाम् । अन्यत् स्वकीयोदरपूरणं यत्, सर्व पशूनां किल रक्षणं तत् ॥ २ ॥ तद्भोजनं यन् मुनिदत्तशेषं, सा प्राज्ञता या न करोति पापम् । तन्मित्रमा
For Private & Personal Use Only
सुलसाकथा ।
॥ २५० ॥
helibrary.org