________________
अन्यदा नागरथिकः कस्यचिच्छेष्ठिनो देवकुमारतुल्यान् पुत्रान् लाल्यमानान् रिखनं प्राङ्गणे कुर्वाणान् वीक्ष्य दध्यौ-यत्र न खजनसङ्गतिरुच्चैर्यत्र नैव लघुलघूनि शिशूनि । यत्र नास्ति गुणगौरवचिन्ता, हन्त तान्यपि गृहाण्यगृहाणि ॥ १॥” ममैवंविधे विभवे सति यत्पुत्रो नाभूत् तन्न रुचिरं । ततो नागः पुत्रचिंतापरो बभूव ।। यतः-“यावन्न द्रव्यं भवने प्रभूतं, तावत् सचिन्तस्तदुपार्जनाय । प्राप्ते च तस्मिन् धनरक्षणायोपायैः सदा । व्यग्रमना जनोऽयम् ॥१॥ यावन्न लावण्यकलं कलत्रं, प्राप्तं तदा म्रियतेऽत्र तावत् । प्राप्तेऽथ तस्मिन् । सकले कलत्रे, पुत्राप्तिकामः पुरुषं दुनोति ॥ २॥ धनेश्वरोऽप्याप्तकलत्रवांश्च, प्रभूतपुत्रोऽपि जनाश्रितोऽपि ।
काष्ठं घुणौधैरिव रोगशोकैनरः समर्थोऽप्यबलः क्रियेत ॥३॥” इत्यादि ध्यात्वा कृष्णमुखो नागोऽभूत् । तादृशं || कृष्णास्यं पतिं वीक्ष्य सुलसयोक्तं-भो प्राणेश ! किं विन्ध्यच्युतकरीव ध्यायनसि ?, भ्रष्टराज्यराजसूनुरिव किं कालमुखोऽसि ? । राज्ञाऽथवा किं त्वमपमानितोऽसि ? । अथवा लोकैस्तव विरुद्धं जल्पितम् । अथवा किं तव गतं? कस्याभीष्टस्य वस्तुनो वियोगोऽभूत् ?। या चिन्ता तव चेतसि विद्यते सा निगद्यताम् । श्रुत्वेति प्रियावचो नागो विहस्य प्राह-भो प्रिये ! मम तद्गोप्यं नास्ति यन्न तवाग्रे लप्यते । यत्तव पुत्रो नाद्याप्यभूत्तन्मां दुनोति ।।
Jain Educatio
n
al
For Private & Personal Use Only
STMainelibrary.org