________________
रत्नानि नव महानिधयः प्राप्ताः, यथा चादर्शगृहेऽवस्थितस्य केवलालोकप्रादुर्भावः, यथा च पञ्चशतपरिवारेण सह || प्रव्रज्यां प्रतिपन्नः, तत् सर्वमप्यभिनीयते स्म । ततो राज्ञा लोकेन च परितुष्टेन सर्वेषामपि यथाशक्ति हारकुण्डलादीन्याभरणानि सुवर्णवस्त्राणि च प्रभूतानि क्षिप्तानि । ततः सर्वजनानां धर्मलाभ प्रदाय पञ्चशतपरिवारसहित आषाढभूतिर्गन्तुं प्राबर्तत । ततः किमेतदिति राज्ञा निवारितः । तेनोक्तं-किं भरतश्चक्रवर्ती प्रव्रज्यामादाय निवृत्तो येनाहमपि निवर्ते इति भणन् आषाढभूतिः सपरिवारो निजं निजं वपुरादर्श प्रतिबिम्बित
दृष्या शुभभावात् केवलज्ञानं प्राप । तवस्त्राभरणादि निजनिजभार्याणां दत्तं । तासां प्रजीवनकमभूत् । तेषां नानटानामपि शुद्ध चारित्रमभूत् । गुरुसमीपे जग्मुः सर्वेऽपि । तन्नाटकं विश्वकर्मणा कुसुमपुरे कृतम् । तत्रापि
पञ्चशतानि क्षत्रियाणां प्रव्रज्यां ललुः । तदा राज्ञा चिन्तितं-एवं प्रव्रजन्तो निष्क्षत्रियां पृथ्वीं करिष्यन्ति । ततस्तन्नाट्यपुस्तकमग्नौ प्रवेशितम् । ततःप्रभृति तादृग् नाटकं नाजनि ।
इति श्रीमत्तपागच्छाधिराजश्रीमुनिसुन्दरसूरिशिष्यपण्डितशुभशीलविरचितायां
भरतेश्वरबाहुबलिवृत्तौ प्रथमः साध्वधिकारः समाप्तः १॥
PERCEDAACHDACH
in Educatan
For Private Personal use only
ahinelibrary.org