________________
॥ श्रीभरतेश्वरवृत्तिः॥
॥ २४७ ॥
1
| विरक्त एष यातीति । ततः सत्वरं निजदुहितरावुत्थाप्य निर्भर्त्सयति - हा दुरात्मके ! हीनपुण्यचतुर्दशीके ! युष्मद्दिलसितमेतादृशमालोक्य सकलकलाकुशलो युष्मद्धर्ता विरक्त यातीति । तद्यदि निवर्तयितुं शक्नुयातं तर्हि निवर्तयेयाथां । नो चेत् प्रजीवनं याचध्वमिति । ततस्ताभ्यां ससम्भ्रमं परिहितवसनाभ्यां पृष्ठतः प्रधाव्यागम्यत । तस्य पदयोर्लगित्वा प्रोक्तं - खामिन्! क्षमस्वैकमपराधं, निवर्तख, मा आवामनुरक्ते परिहर । एवमुक्तोऽपि स मनागपि न रज्यते । ततस्ताभ्यामभाणि - स्वामिन् ! यद्येवं तर्हि प्रजीवनं देहि, येन पश्चादपि युष्मत्प्रसादेन जीवामः । तत एवं भवत्विति दाक्षिण्यवशादनुमन्य प्रतिनिवृत्तः । ततो भरतचक्रवर्तिनश्चरितप्रकाशकं राष्ट्रपालं नाम नाटकं कर्तुकामोऽभूत् तद्वचः कर्तुम् । ततो विज्ञप्तो विश्वकर्मणा सिंहरथो राजा - देव ! आषाढभूतिः राष्ट्रपालं नाम नाटकं यदि तुभ्यं रोचते तदा तवाग्रे करोति । राजा जगौ - करोतु । आषाढभूतिः प्राह - तत्र नाटके राजपुत्रपञ्चशतैराभरणविभूषितैः प्रयोजनम् । ततो राज्ञा दत्तानि राजपुत्राणां पञ्चशतानि । तानि यथायथमाषाढभूतिना शिक्षितानि । ततः प्रारब्धं नाटकं नर्तितुम् । तत्राषाढभूतिरात्मना इक्ष्वाकुबंशसम्भूतो भरतश्चक्रवर्ती स्थितः । राजपुत्राश्च यथायोगं कृताः सामन्तादयः । तत्र च नाटके यथा भरतेन भरतषट्खण्डं प्रसाधितं यथा चतुर्दश
Jain Education national
For Private & Personal Use Only
लोभपिण्डे आषाढ•
भूतिकथा ।
॥ २४७ ॥
jainelibrary.org