SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ AMERIES लभते च भूरि द्रव्यं स्वकलादर्शनात् । अन्यदा राज्ञा समादिष्टा नटाः-अथ निर्महेलं नाटकं नर्तनीयम् । ततः । सर्वेऽपि नटाः खां खां युवतिं स्वस्वगृहे विमुच्य राजकुलं गताः । तत्रानेके नटा भूपसमक्षं वकलया जिताः। मतदा राज्ञा बहु धनं ददे।इत आषाढभूतिभार्याभ्यां ध्यातम्-अद्यास्माकं भर्ता राजकुलं गतोऽस्ति । सर्वां रात्रिं IN| तत्र स्थास्यति। ततः पिबामो यथेच्छमासवमिति। तथैव कृतं ताभ्यां । मदवशाच्चापगतचेतने विगतवस्त्रे द्वितीय भूमिकाया उपरि सुप्ते तिष्ठतः स्म । राजकुलेऽपि परराष्ट्रदूतः समागात् इति राज्ञो व्याक्षेपो बभूव । ततो || Mall नावसर इतिकृत्वा प्रतीहारेण मुत्कलिताः सर्वेऽपि नटाः। गताः खं खं गृहम् । आषाढभूतिश्च स्वगृहेऽभ्येत्या यावद् द्वितीयभूमिकामारोहति तावद् ते द्वे अपि निजप्रिये विगतवस्त्रतया बीभत्से पश्यति स्म । ततः स । IN महात्मा अचिन्तयत्-अहो मे मूढता, अहो मे निर्विवेकता, अहो मे दुर्विलसितं, यदेतादृशामप्यशुचिकरण्डभू तानामधोगतिनिबन्धनानां कृते परमशुचीभूतमिहपरलोककल्याणपरम्पराजनकमक्षेपेण मुक्तिपदनिबन्धन |संयममुज्झांचकार । ततोऽद्यापि मे किमपि न विनष्टमस्ति । गच्छामि गुरुपादान्तिकं । प्रतिपद्ये च चारित्रं । प्रक्षालयामि पापपङ्कमिति विचिन्त्य विनिर्गतो गृहात् । दृष्टः कथमपि विश्वकर्मणा । लक्षित इङ्गितादिना-यथा भरते.४२ Jain Education 11 For Private & Personal Use Only Brainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy