________________
॥ श्रीभरतेभ्वरवृत्तिः॥
॥ २४६ ॥
1
विश्वकर्मणा । भणितं - भगवन् ! सदाऽनुग्रहः कार्योऽस्मदुपरि भिक्षाग्रहणात् । ततश्वाषाढभूतिर्गतः स्वाश्रयम् । |इतश्च - विश्वकर्मा तस्य यतेः खरूपं नानारूपकरणात्मकं दुहित्रोः निजकुटुम्बस्याग्रे चाकथयत् । भणिते च दुहितरौ - तथा स्वन्नदानस्नेह दर्शनादिना कर्तव्यः स यतिः यथा युष्माकमायत्तो भवति । सदाऽऽयात्याषाढभूतिराहारार्थम् । ततस्ताभ्यां तथोपचरितो यथा वशीभूतो जगावाषाढभूतिः - गुरुमापृच्छ्यात्रागमिष्यामि युष्माकं पार्श्वे । ततो | गुरुपार्श्वे गतो यतिः । खाभिप्रायं प्रोक्तवांश्च । गुरुभिरुक्तं विवेकिन् ! एवं तव न युज्यते । आषाढभूतिर्जगौभगवन् ! किमपि तथाविधं पूर्वमवार्यं कर्मोदयमागमत् यथा तत्र गमनं विना न शक्नोमि । एवमुक्त्वा रजोहरणं गुरुपार्श्वे मुक्त्वा गुरूणां पृष्ठिर्न दीयते इति ध्यायन् पश्चात्कृतपादचारोऽचलदाषाढभूतिः । तत्र गत | आषाढभूतिः । विश्वकर्माऽवोचत् - महाभाग ! तवायत्ते द्वे अपि अमू कन्ये । ततः परिणीते तेन ते द्वे कन्यके । भणिते च विश्वकर्मणा - यो नामैतादृशीमप्यवस्थां गतोऽपि गुरुपादान् स्मरति स नियमादुत्तमप्रकृतिः । तत एतच्चित्तावर्जनं नित्यं कार्यं मद्यपानविरहिताभ्यां युवाभ्यां स्नेहेन सदा । अन्यथैष विरक्तो यास्यति । अनेन कलावता आत्मीयगृहे भूयसी श्रीर्भविष्यति । ततश्वाषाढभूतिः सर्वकलाकुशलोऽखिलनटानामग्रणीरभूत्,
Jain Education International
For Private & Personal Use Only
लोभपिण्डे
आषाढ
भूतिः ।
॥ २४६ ॥
w.jainelibrary.org