SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ दत्तं संयतेभ्यो । मुधा किं यूयं भणथ ? । ततो मौनमवलम्ब्य स्थितः। ततो गुरुपार्श्वे धर्म श्रुत्वा धनदेवः क्रमात् । संयमं गृहीत्वा तीनं तपस्तप्त्वा सर्वकर्मक्षयान्मुक्तिं यास्यति । इति कृपणकथा समाप्ता ॥ ५८ ॥ अथ प्रथमसाध्वीनाम(लोभपिण्डस्या)धिकारः। NI राजगृहपुरे सिंहरथो राजा । विश्वकर्मा नटः । तस्य द्वे दुहितरौ सुरूपे । अन्यदा तत्र यथाविहारक्रम समीयुर्धर्मरुचयः सूरयः । तेषामन्तेवासी प्रज्ञानिधिराषाढभूतिः। स भिक्षार्थमटन् कथमपि विश्वकर्मणो नटस्य | गृहं प्राविशत् । तत्र च लब्धः प्रधानो मोदको । द्वारे चाभ्येत्य चिन्तितं तेन-एष मोदकः सूरीणां भविष्यति । तत आत्मार्थ रूपपरावर्तनमाधायान्यं मोदकं मार्गयामीति । ततः काणरूपं कृत्वा पुनः प्रविष्टः। द्वितीयो मोदको || लब्धः । पुनर्हारेऽभ्येत्य दध्यौ-अयमुपाध्यायस्य भविष्यति । ततः कुब्जरूपं कृत्वा तृतीयो मोदकः प्राप्तः ।। एष द्वितीयसाधोभविष्यति इति ध्यात्वा कुष्ठिरूपं कृत्वा पुनः पूर्ववत् प्रविष्टः सन् चतुर्थं मोदकं प्राप सः। भएतानि रूपाणि कुर्वन्तं तं मालोपरिस्थो विश्वकर्माऽपश्यत् । दध्यौ च-ईदृक्कलावानस्माकं कुले कोऽपि नास्ति । उत्पन्ना तस्य धीः-दुहितृभ्यां क्षोभयित्वा ग्रहीतव्यः । ततस्तत्रैत्याषाढभूतिः पात्रभृतैर्मोदकैः प्रतिलम्भितो in Eduentan I I For Private & Personal Use Only Mainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy