SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २४५ ॥ Jain Educatio सम्मुखमवलोक्य मया तव नासिकापुढे मूत्रितमिति निजनासापुटे अङ्गुल्यभिनयेन दर्शयति । दर्शयित्वा च घृत- मायापिण्डे गुडसेवतिका जगाम निजवसताविति । क्रमाद्गुरुपार्श्वे जिनेन्द्रोक्तधर्मं श्रुत्वा कौटुम्बिको दीक्षां जग्राह । चिरं संयमं प्रपात्य स्वर्गसौख्यमाप । ततो मुक्तिमपि यास्यति । क्षुल्लकोऽपि मानं मुक्त्वा क्रमाच्चारित्रं प्रतिपाल्य | मुक्तिं गमिष्यति । इति मानोपरि कृपणोपरि क्षुल्लक (कृपण) कौटुम्बिकप्रिय कथा समाप्ता ॥ ५७ ॥ धनदत्तकथा । गन्धसमृद्धे पुरे धनदेवो नाम भिक्षूपासकः । स च साधुभ्यो भिक्षार्थं गृहे समागतेभ्यो न किञ्चिदपि दत्ते । अन्यदा वरतरुणश्रमणानामेकत्र परिपिण्डितानां परस्परमुल्लापोऽभूत् । तत्र एकेनोक्तम् - अतिकृपणोऽयं धनदेवः | संयतानां किमपि न ददाति । ततोऽस्ति कोऽपि साधुः य एनं घृतगुडादिकं दापयति । ततस्तेषां मध्ये केनाप्यूचे - यदीच्छत अद्य । ततो मामनुजानीध्वं येनाहं दापयामि । ततस्तैरनुज्ञातः । गतस्तस्य गृहम् । अभिमन्त्रितो विद्यया । ततो ब्रूते साधुभ्यः - किं प्रयच्छामि ? । तैरुक्तं - घृतगुडवस्त्वादि । ततो दापितं तेन संयतेभ्यः प्रचुरं घृतगुडादिकं । तदनन्तरं च प्रतिसंहृता विद्या क्षुल्लकेन । जातः खभावस्थो भिक्षूपासकः । ततो यावन्निभालयति घृतादिकं च न पश्यति । ततः केन मे हृतं घृतादिकं ? केनाहं मुषितोऽस्मीति विलपितुं प्रवृत्तः । ततः परिजनेनोक्तं - युष्माभिरेव ational For Private & Personal Use Only ॥ २४५ ॥ w.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy