SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ महेलाप्रधानं मा याचस्व । विष्णुमित्रोऽवादीत्-नाहं षण्णां पुरुषाणां समानः । ततो याचस्व मामिति । ततः लक्षुल्लकेनोक्तं-देहि मे घृतगुडसंयुताः पात्रभरणप्रमाणाः सेवतिकाः । विष्णुमित्रेणोक्तं ददामि । ततः क्षुल्लकं ) करे गृहीत्वा स्वसद्माभिमुखं चलितवान् । समागतो निजगृहद्वारे । ततः क्षुल्लकेनामाणि-प्रथममेव तव गृहे गतोऽभूवम् । तत्र तव भार्यया प्रतिज्ञा व्यधायि-यथा न किमपि ते दास्यामि । तत इदानीं ययुक्तं तत् समाचर। एवमुक्ते विष्णुमित्रोऽवादीत्-यद्येवं तर्हि क्षणमात्रमेव गृहद्वारे तिष्ठ । पश्चादाकारयिष्यामि । ततः प्रविष्टो । गृहमध्यं विष्णुमित्रः। पृष्टा च तेन स्वभार्या-यथा राधा सेवतिका ?। प्रगुणीकृतानि घृतगुडादीनि ? । तयोक्तं-सर्व सज्जीकृतमस्ति । क्षत्रियोऽवग्-प्रकटीकुरु, कार्यमस्ति । तया दर्शिता रसवती । ततो गुडानयनच्छलेन पत्नी मालस्योपरि चटापिता । अपनीता ततो निःश्रेणिः । तत स आकार्य क्षुल्लकं पात्रभरणप्रमाणा ददौ तस्मै सेवलातिकाः। घृतगुडादीनि दातुमारब्धानि । अत्रान्तरे गुडमादाय सुलोचना मालादुत्तरीतुं प्रवृत्ता । परं निःश्रेणिं न पश्यति । ततो विस्मितदृष्टया सप्रसरं यावदालोकते तावत् पश्यति क्षुल्लकाय घृतगुडसंयुक्ताः सेवतिका दीयNमानाः। ततोऽहमनेन क्षुल्लकेनाभिभूतेत्यभिमानपूरितहृदया माऽस्मै देहीति महता शब्देन पुत्कुरुते । क्षुल्लकोऽपि तस्याः । Jain Education For Private Personal Use Only Drary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy