________________
॥ श्रीभरतेश्वरवृत्तिः ॥
॥ २४४ ॥
Jain Educatio
अन्यदा स प्रियापार्श्वे भोजनमयाचत । तयोक्तं-मम समीपे स्थालमादाय समागच्छ । सोऽपि यत् प्रियतमा | समादिशति तन्मे प्रमाणमिति वदंस्तस्याः समीपे गतः । तया परिवेषितं भोजनं । तत उक्तं - भोजनस्थाने गत्वा भुंक्ष्व । ततः स भोजनस्थानं गत्वा भोक्तुं प्रवृत्तः । ततः पुनरपि तेन तीमनं याचितम् । सा च प्रत्युवाच - | स्थालमादाय मम समीपे समागच्छ । ततः स गृध्र इव उत्कटिको रिंखन् स्थालेन गृहीतेन याति । एवं तत्रादिकमपि गृह्णाति । तत एतल्लोकेन ज्ञात्वा हासेन गृध इव रिंखतीति नाम कृतम् । एष गृभ्ररिंखी ५ ॥ तथा कचिद् ग्रामे भार्यामुखप्रलोकनसुखलम्पटस्तदा देशकारी कोऽपि पुरुषः । तस्यान्यदा भार्यया सह विषय - सुखमनुभवतः पुत्रो बभूव । स च पालनक एव स्थितोऽतिबालत्वात् पुरीषमुत्सृजति, तेन च पुरीषेण पालनकं बालकवस्त्राणि च खरंट्यन्ते । ततः सा भणति - बालस्य पोतिकानि प्रक्षालय, पालनकं बाल वस्त्राणि च । ततो यत् प्रिया समादिशति तत् करोमीति वदन् तथैव करोति । एवं सर्वदैव । ततो लोकेनैतज्ज्ञात्वा बालस्य हदनं प्रक्षालयितुं जानातीतिकृत्वा हदज्ञ इति नाम तस्य कृतम् । एष हदज्ञः ६ ॥ तत एवमुक्ते क्षुल्लकेन सर्वैरपि | पार्षदिकैरेककालमट्टाट्टहासेन हसद्धिरभाणि - भुक एष षण्णामपि पुरुषाणां गुणानाददाति स्म । तस्मादेनं
For Private & Personal Use Only
महिला
प्रधाना षटू
पुरुषी ।
॥ २४४ ॥
w.jainelibrary.org