________________
Jain Educat
तो घटभरणे बुडबुडशब्दश्रवणतश्च तडागपालीवृक्षेषु प्रसुप्ता बका उड्डीयोत्पतन्ति । एष वृत्तान्तो लोकेन विदितः । ततोऽस्यार्थस्य सूचनार्थं हासेन बकोड्डायक इति नाम कृतम् । एष बकोड्डायकः २ ॥ तथा कचिद्रामे कोऽपि पुरुषो भार्यास्तनजघनादिस्पर्शलम्पटो भार्याछन्दानुवर्ती, स च प्रातरेवोत्थाय कृताञ्जलिप्रग्रहो वदति - दयिते ! किं करोमि ? । सा च वदति - तडागादुदकमानय । ततो यत् प्रिया समादिशतीत्युक्त्वा तडागादुदकमानयति । | पुनरपि भणति - किं करोमि प्राणेश्वरि ? | सा वदति - कुसूलादाकृष्य तण्डुलान् खण्डय । एवं यावद्भोजनादूर्ध्व मम पादान् प्रक्षाल्य घृतेन फाणयेति । स च सर्वं तथैव करोति । तत एव लोकेन ज्ञात्वा तस्य किङ्कर इति नाम दर्शितम् । एष किङ्करः ३ ॥ तथा कचिद् ग्रामे कोऽपि पुरुषो भार्यादेशवर्ती । स चान्यदा निजभार्यामवादीत् - प्राणेश्वरि ! स्नातुमहमिच्छामि । तयोक्तं - यद्येवं तर्हि आमलकान् शिलायां वर्तय । परिधेहि स्नानपोतिकां । अभ्यङ्गय तैलेनात्मानं । गृहाण घटं । ततस्तडागे स्नात्वा घटं च जलेन भृत्वा समागच्छेति । स च | देवताशेषामिव भार्याऽऽदेशं शिरसि निधाय तथैव करोति । एवं च सर्वदैव । ततो लोकेनास्यार्थस्य प्रकटनार्थं हासेनास्य स्नायक इति नाम कृतम् । एष स्नायकः ४ ॥ तथा क्वचिदू ग्रामे कोऽपि पुरुषो भार्याऽऽदेशविधायी ।
ational
For Private & Personal Use Only
ww.jainelibrary.org