________________
॥ श्रीभरते- श्वरवृत्तिः॥
॥२४३॥
भिक्षुः
पर्षजना अवादिषु:-के ते षट् पुरुषा महेलाप्रधानाः ? येषामन्यतमोऽयमाशङ्कयते । ततः क्षुल्लक आह-II मानपिण्डे
सेवतिकाश्वेताङ्गुलि १ कोड्डायी २, तीर्थस्नायी ३ च किङ्करः ४।हदज्ञो ५ गृधरिंखी च ६, षडेते गृहिणीवशाः॥
एतेषां षण्णामपि कथानकान्यमूनि सन्ति । तथाहि-क्वचिद्बामे कोऽपि पुरुषो निजभार्याछन्दानुवर्ती, स च प्रातरेवोत्थाय जातबुभुक्षो निजभार्यां भोजनं याचते । सा च वदति-नाहमालस्येनोत्थातुमुत्सहे । ततस्त्वमेव समाकर्ष चुळ्या भस्म । बहिः प्रक्षिप । तत्र प्रातिवेश्मिकगृहादानीय वह्नि प्रज्वालय तमिन्धनप्रक्षेपेण ।। समारोपय चुल्याः शिरसि स्थाली । एवं यावत् पक्त्वा कथय। ततोऽहं परिवेषयामि इति । स च तथैव प्रतिदिनं कुरुते । ततो लोकेन प्रातरेवास्य चुल्ल्या भस्मसमाकर्षणेन श्वेतीभूताङ्गुलिदर्शनात् सहासं श्वेताङ्गुलिरिति नाम कृतम्। एष श्वेताङ्गुलिः १॥ तथा कचिद्रामे कोऽपि पुरुषो निजभार्यामुखदर्शनसुखलम्पटस्तदादेशवर्ती । अन्यदा तया भार्यया कथितं यथाऽहमालस्ये, त्वमेव चोदकं तडागादानय । स च देवताऽऽदेशमिव भार्याऽऽदेशमभिमन्यमानः प्रतिवदति-यदादिशसि प्रिये! तदहं करोमि । ततो दिवसे लोको मां मा द्राक्षीदिति रात्रौ पश्चिमयामे समुत्थाय प्रतिदिवसं तडागादुदकमानयति । तस्य च तत्र गमनागमने कुर्वतः पदसञ्चारशब्दश्रवण
॥२४३॥
Jain Education Intel
For Private & Personel Use Only
Minelibrary.org