________________
Jain Education In
| निर्जगाम । प्रविष्टः क्वापि कौटुम्बिकगृहे । दृष्टाश्च तंत्र प्रचुराः सेवतिकाः । घृतगुडादीनि च प्रभूतानि प्रगुणीकृतानि । ततोऽनेकधा वचनभङ्गीभिः सुलोचनाभिधाना कौटुम्बिकगृहिणी याचिता । तया च सर्वथा प्रतिषिद्धः क्षुल्लकः । ततः क्षुल्लकोऽभाणीत् सामर्षं - नियमादियं सेवतिका सघृतगुडा मया ग्रहीतव्या । सुलोचनाऽपि सामर्षं क्षुल्लकवचः श्रुत्वा सञ्जातकोपा प्रत्युवाच - यदि त्वमेतासां सेवतिकानां किमपि लभसे तदा मदीया नासिका छेद्या । क्षुल्लकोऽचिन्तयत् - अवश्यमेतन्मया विधातव्यम्, एवं विचिन्त्य गृहान्निर्ययौ । पप्रच्छ च कस्यापि पार्श्वे - कस्येदं गृहमिति । सोऽवादीत् - विष्णुमित्रस्य । ततः पुनरपि क्षुल्लकः पृच्छति स इदानीं व वर्तते ? । तेनोक्तं - पर्षदि । ततः पर्षदि गत्वा सहर्ष इव पर्षज्जनान् पृष्टवान् - भो ! युष्माकं मध्ये को विष्णुमित्रः ? । जना अप्यवादिषुः - किं साधो ! तव तेन प्रयोजनम् ? । साधुरवोचत् - तं किमपि याचिष्ये । स च तेषां सर्वेषामपि प्रायो भगिनीपतिरिति सहासं तैरवाचि -कृपणोऽसौ न ते किमपि दास्यतीत्यस्मानेव याचस्व । ततो विष्णुमित्रो दध्यौ - मा मे अपभ्रा| जना भवेदिति तेषामग्रतो भूत्वा बभाण- अहं विष्णुमित्रोऽहं । याचख किमपि मां । मा केलिवचनममीषां कर्णे | अकार्षीश्च । ततोऽवादीत् क्षुल्लको - याचेऽहं यदि त्वं महेलाप्रधानानां षण्णां पुरुषाणामन्यतमो न भवसि । ततः
For Private & Personal Use Only
inelibrary.org