SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Jain Educa क्षुल्लकद्वयेन कथमप्यद्दश्यीकरणनिबन्धनमञ्जनं व्याख्यायमानं शुश्रुवे । यथा तेनाञ्जितचक्षुर्न केनापि दृश्यते । इति योनिप्राभृतव्याख्यानसमर्थनानन्तरं च समृद्धाभिधोऽन्तेवासी सूरिपदे स्थापितः । मुत्कलितश्च सकलगच्छसमेतो देशान्तरे । स्वयमेकाकिनस्तत्रैवावतस्थिरे सूरयः । कतिपयदिनानन्तरं क्षुल्लकइयमाचार्यसमीपे समाज - गाम । आचार्या अपि यत् किमपि भिक्षया लभन्ते तत्समं विभज्य क्षुल्लकद्वयेन सह भुञ्जते । तत आहारापरिपूर्णतया सूरीणां दौर्बल्यमभवत् । ततश्चिन्तितं क्षुल्लकद्वयेन - अवमोदरता सूरीणां ततो वयं पूर्वश्रुतमञ्जनं कृत्वा चन्द्रगुप्तेन सह भुञ्जाव इति । तथैव कृतम् । ततश्चन्द्रगुप्तस्याहारस्तोकतया बभूव शरीरे कृशता । ततश्चाणक्येन पृष्टं किं ते शरीरे दौर्बल्यं ? । स प्राह - परिपूर्णाहारालाभतः । ततश्चाणक्येन चिन्तितम् - एतावत्याहारे परिवेष्यमाणे कथमाहारस्यापरिपूर्णता ? । तन्नूनमञ्जनसिद्धः कोऽपि समागत्य राज्ञा सह भुङ्क्ते । ततस्तेनाञ्जनसिद्धग्रहणाय भोजनमण्डपेऽतीव श्लक्ष्णेष्टिकाचूर्णे विकीर्णे दृष्टानि मनुष्यपदानि । ततो निश्चिक्ये - नूनं हौ पुरुषावञ्जनसिद्धावायातः । ततो द्वारं पिधाय मध्येऽतिबलो धूमो निष्पादितः । धूमबाधितनयनयोश्च तयोरञ्जनं नयनाश्रुभिः सह विगलितं । ततो बभूवतुः प्रत्यक्षौ क्षुल्लकौ । कृता चन्द्रगुप्तेनात्मनि जुगुप्सा - अहो विट्टालितोऽहमाभ्यामिति । ततश्चाणक्येन mational For Private & Personal Use Only www.jainelibrary.org.
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy