________________
यामास-यदि देवदत्तस्य भ्रातुहे गमिष्यामि तदा मे भगिनी दारिद्येणाहमभिभूता ततो मम गृहे साधुरपि । भ्राता न समुत्तीर्ण इति परिभवं मंस्यते इति ततोऽनुकम्पया तस्या एवं गृहं प्रविवेश । भिक्षावेलायां च तयाल चिन्तितं लक्ष्म्या-यथा एको भ्राता साधुश्च प्राघूर्णकश्च, मम गृहे च कोद्रवकूरस्ततः कथमसौ अस्मै दीयते?, शाल्योदनश्च मम गृहे न विद्यते, ततो भातृजायाया बन्धुमत्याः सकाशात् कोद्रवौदनपरावर्तनेन शाल्योदनमानीय ददामीति। तथैव कृतम्।अत्रान्तरे च देवदत्तो भोजनार्थं स्वगृहमागतः। देवदत्तो बन्धुमत्या पपृच्छे, यथाभोकान्त ! अद्य भवता कोद्रवौदनो जेमितव्यः ? । तेन चापरिज्ञातपरिवर्तनवृत्तान्तेन चिन्तितम्-यथाऽनया कृपणतया कोद्रवौदनो राडो, न शाल्योदनः, ततस्तां ताडयितुमारेभे, सा च ताड्यमाना प्राह-किं मां ताडयसि ? । तवैव भगिनी कोद्रवौदनं मुक्त्वा शाल्योदनं नीतवती । धनदत्तस्यापि भोजनार्थमुपविष्टस्य यः । शाल्योदनः क्षेमङ्करस्य दीयमान उद्धरितः स गौरवेण लक्ष्म्या परिवेषितः । ततस्तेन सा पृष्टा-कुतोऽयं शाल्योदनः? । ततः कथितः सर्वोऽपि वृत्तान्तस्तया। ततश्चकोप।धनदत्तश्चाहेति-हा पापे ! किमिति माणकमेकं शालिं| पत्त्वा साधवे शाल्योदनो दत्तः । अथवा (किमिति) आत्मीयगृहसत्कः कोद्रवो न दत्तः । यत्परगृहादानयनेन।
भरते.४१ Jain Education
a
l
For Private & Personal use only
ainelibrary.org