________________
॥ श्रीभरतेश्वरवृत्तिः॥
॥ २४० ॥
Jain Education
कृता तेन कर्मणा मीनोदरे उषितस्त्वं कियन्तमपि कालं मैनिकगृहे स्थितश्च भवान् । सहस्रतमे भवे एकः शुकः पञ्जरे क्षिप्तः तेन पापेनात्रापि भवे शुकत्वं प्राप्तम् । अनङ्गसेनायाश्च पूर्वभवे काचित्सखी अत्यद्भुत| शृङ्गारा अहो गणिकेयमिति हसिता तेन कर्मणाऽसौ गणिका जाता । इति श्रुत्वा राजादयो वैराग्यमापन्नाः सुताय राज्यं दत्त्वा प्रव्रज्यां जगृहुः । तीव्रं तपस्तप्त्वा देवा अभूवन् । महाविदेहे मुक्तिर्भविष्यति । इति वस्त्रदाने उत्तमचरित्रराजकथा समाप्ता ॥ ५४ ॥
प्रतिबोध्यं कुटुम्बं खमुत्तमैर्निजशक्तितः । क्षेमङ्करमहासाधुनेव मुक्तिसुखाप्तये ॥ १ ॥
केनचिदू गृहस्थेन स्वधान्यपरावर्तेनानीत [ मन्य ] मन्नं न ग्रहीतव्यं साधुना कलिसम्भवात्, तथाहि-- वसन्तपुरे निलयः श्रेष्ठी, सुदर्शना भार्या, तयोर्डों पुत्रौ -क्षेमङ्करदेवदत्तौ, लक्ष्मीर्दुहिता च । तत्रैव पुरे तिलकश्रेष्ठिनः सुन्दरी प्रिया । धनदत्तः पुत्रः, बन्धुमती सुता । अन्यदा तत्र क्षेमङ्करः पुत्रः सूरीणामुपकण्ठे दीक्षां गृहीतवान् । देवदत्तेन च बन्धुमती धनदत्तेन च लक्ष्मीः परिणीता । अन्यदा कर्मवशात् धनदत्तस्य गृहे दारिद्र्यमुपागतं, ततः स दुःखप्रापं कोद्रवकूरं भुङ्क्ते । देवदत्तश्वेश्वरः सन् सदा शाल्योदनं भुङ्क्ते । अन्यदा क्षेमङ्करसाधुस्तत्रागतश्चिन्त
For Private & Personal Use Only
उत्तमचरित्र
कुमार
चरित्रम् |
॥ २४० ॥
w.jainelibrary.org