SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ भावेन चिरं सौख्यमन्वभुंक्त । तस्य च ४० चत्वारिंशत्कोटयो ग्रामाणां ४. चत्वारिंशत्लक्षाणि गजानां ४० चत्वारिंशत्लक्षाण्यश्वानां ४० चत्वारिंशत्लक्षाणि रथानां चत्वारिंशत्कोटयः पत्तीनां पत्त्यश्चतस्रो ( परःसहस्राः) भूपानामासन् । तेन च कारिताः प्रतिग्रामं जिनप्रासादाः, प्रवर्तिताः प्रतिवर्ष रथयात्रातीर्थयात्रादिमहाः, मुक्ताः। सर्वग्रामेषु कराः । अन्यदा समायातः केवली, गतो वन्दनार्थ राजा, श्रुता धर्मदेशना। राजा पप्रच्छ-भगवन् ! केन कर्मणा मम सम्पदोद्भुता जाताः ? केन च मम समुद्रे पतनं जातं ? कियत्कालं केन वा मम शुकत्वं च ? केन । वाऽनङ्गसेनागणिका प्राप्ता? । केवली प्राह-शृणु राजन् ! हिमवद्भूमौ सुदत्तग्रामे धनदत्तः कौटुम्बिकः, चतस्रस्तस्य भार्याः, स च पूर्व धनवानपि कालेन विधिवशादत्यन्तं दरिद्रो जातः । अन्यदा मार्गे चौरैरपहृतवस्त्राश्च-IN त्वारो मुनयस्तत्रागताः । धनदत्तेन भद्रकतयोदारतया च प्रासुकानि शीतकालपरिभोग्यानि स्वप्रावरणवस्त्राणि चत्वारि श्रद्धातिशयात् साधुभ्यो दत्तानि । भार्याभिरनुमोदना कृता । धनदत्तजीवस्तेन पुण्येन त्वं राजा जातः । राज्यचतुष्टयखामी, वस्त्रपात्रदानात् तव रत्नपञ्चकं धनधान्यमणिकनकचीनांशुकक्षीरोदकरत्नकम्बलप्रभृतिवस्तूनां सर्वदा सम्पादकं जातम् । एकदा च पूर्वभवे त्वया मैनिका इव मलिनगात्रा एते मुनय इति जुगुप्सा | Jain Education For Private Personel Use Only ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy