SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter न रोके स सम्प्रति प्राप्तराज्यः पञ्चरत्नमहिम्ना सम्पूर्णकोशबलः प्रभूतसुभटकोटिपरिवृतः कथं जेतुं शक्यते ? | अथवा जामात्रा सह कलहे का शोभा भवति ? । इति विचिन्त्य विमुक्तरणसंरम्भो मोटपल्लीवेलाकूल मागत्य सप्रणयं स्वतनयां सम्भाष्य श्रीउत्तमचरित्रं नृपं प्रणम्य तदाज्ञां प्रपद्य स्वस्थानमागमत् । इतश्च-एकदा राज्ञः संसदि कविलेखहारकः समायातः । राज्ञे च लेखं समर्पयामास । राजाऽप्युन्मुद्यावाचयत् । तथाहि - स्वस्तिश्रीवाराणस्यां राजा श्रीमकरध्वजः खपुत्रमुत्तमचरित्रनामानं कुमारं निर्भरमालिङ्गय कुशल| कथनपूर्वकमादिशति-यथा वत्स ! त्वयि विदेशं प्रति प्रस्थिते अहं त्वामपश्यन् अश्ववारान् पत्तीन् सर्वत्र लेखहारान् प्रेषयित्वा तव शुद्धिमकार्षम्, परं प्रयाणदिवसादनु ग्रामे पुरे पत्तने निवेशने वने पर्वते द्वीपे च भवतो वार्ताऽपि न लेभे । अन्यच्च - अहं वार्द्धकेण राज्यभारधौरेयस्य भवतो विरहेण च सम्प्रति व्याकुलो जातोऽस्मि । अधुना च | त्वं मोटपल्लीवेलाकूले राज्यं कुर्वाणः श्रुतः । ततोऽसौ लेखः प्रहितः । एतज्ज्ञात्वा दृष्टलेखेनात्रागन्तव्यमिति | लेखार्थमवगत्य तदैव वेलाकूलराज्यं प्रधानेभ्यो भलापयित्वा स्वयं ससैन्यप्रियाचतुष्टययुतो वाराणसीं प्रतस्थे । | क्रमेण चित्रकूटं प्राप्तः । तत्र तत्खामिना महासेनराज्ञा समुत्पन्नवैराग्येण निष्पुत्रेण राज्यधुरन्धरं नरं ज्ञातु For Private & Personal Use Only Telibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy