________________
॥श्रीभरतेश्वरवृत्ति
चरित्रकुमार
॥२३७॥
तथापि क्षणमेकं स्थितोऽस्मि। विलोकय गणिकावेश्म । ततो राजाऽऽज्ञया गता गणिकागृहे जनाः, तैर्विलोकितं । गृहं सर्वं, स कुमारो न दृष्टः। पृष्टं-क्क स राजजामाता ?।सा किमपि प्रत्युत्तरं नार्पयति । प्रत्यागत्य ते नराः सर्व राज्ञे विज्ञपयन्ति स्म । राजा दध्यौ–न ज्ञायते परमगहनं किमपीदं वृत्तम् । ततः शुकमेव पृच्छामि । ननु चरित्रम् । शुकराज! किमस्मान् मुधा विप्रतारयसि ?, वदाग्रतः सर्वम् । त्वत्तः कोऽपि पर एतत्स्वरूपस्य वेदिता वक्ताऽऽपि चन। ततः शुकःप्राह-राजन् ! सर्वभाषणं विना नास्ति मम तव हस्तान्मुक्तिरिति सर्व शृणु, जायतां सर्वेषां प्रमोद । इति कथयामि। सर्पदशनादनु ना(अनङ्ग)गसेना दध्यौ-नूनमद्भुतसौभाग्यो गुणवानसौ राजजामाता। ममास्मिन् । भवेऽयमेव भर्ताऽस्तु । परं यदि राजा ज्ञास्यति तदाऽस्य नात्र स्थातुं दत्ते इति, स्वस्थानाद्गतः कथं पुनरयमत्रायाति ? ततस्तथा कुर्वे यथाऽसौ राजजामाता न याति इति तया मत्राभिमत्रिते दवरके प्रसुप्तस्य तस्यांघौ निबद्धे || जातः शुकः कुमारः, क्षिप्तः पञ्जरे । सा च प्रत्यहं दवरकच्छोटनान्नरं पुनस्तद्वन्धनाच्च शुकं खेच्छया तन्मोहात ।। कुरुते स्म । इतश्च कुमारो दध्यौ-अहो मानुष्येऽपि मम तिर्यक्त्वं जातं, हा मया किं पातकं पूर्वभवे कृतम्।अत्र भवे किमपि कृतं न स्मरामि।हुं ज्ञातं, मयाऽत्रैव भवे पित्राऽदत्ताया मदालसायाः पाणिग्रहणं कृतं, रत्नपञ्चकं च
॥२३७॥
Jain Education
anal
For Private & Personal Use Only
MOMainelibrary.org