________________
तैलं न जातं, तर्हि किं तिलसरैर्भविष्यति ? । एतावत्प्राक्कथया कथितया यदि त्वया मे राज्यं न दत्तं तदा किमतो मम उक्तात्परं दास्यसीति ? । तथापि वक्ष्यामि शृणु राजन् ! यदा कुमारः सर्पदष्टोऽवनौ पपात तदाऽनङ्गसेनानाम्नी दिव्यरूपपात्रं गणिका केनापि प्रयोजनविशेषेण तत्रैकाकिन्येव समायाता । तया च विषापहारिमुद्रिकामणिजलेन सिक्तः पुनरुज्जीवितश्च तदैव खगृहे स्थापितश्च चतुर्थभूमौ चित्रशालायां, तया सह सुखमनुभवति साम्प्रतम् । राजन् ! स्वस्ति तवास्तु, मुञ्च मां निरपराधम् अलं राज्येन, तुष्टोऽस्मि वनफलैरेव, | मुधा मया गलतालुशोषः कृतः । शुभमस्तु सदा सत्यवादिभ्यो मानवेभ्यः । भद्रमस्तु वैद्येभ्यस्तेभ्यो ये सर्वथा दाक्षिण्यं मुक्त्वा पूर्वं धनं गृहीत्वा पश्चाद्रोगिणे रसायनं ददति । अहं पुनर्दाक्षिण्यवान् महामूर्खः यः सर्वां | कथां कथयित्वा पश्चाद्राज्यमीहे इति । अथ राजा जगौ - हे कीर ! यथाऽर्द्धे कृते गडुप्रभृतिवैद्यके वैद्यो न | गमनं लभते कथितं धनमपि नाप्नोति तथा भवानपि अक्तां कथां मुक्त्वा गन्तुं न लभते राज्यमपि | नाप्नोति । ततः स्थिरो भव यावद्वयमनङ्गसेनाया गृहे तं कुमारं विलोकयामः, अग्रतः कथां पृच्छामः, पश्चात्तव राज्यं दास्यामः । शुकोऽवग्-विदूषक कार्यमाणजेमनवाण्यां चुलुकग्रहण एव प्रतीतिरुत्पद्यते तथाऽत्रापि तव वचसि ।
Jain Educationtional
For Private & Personal Use Only
jainelibrary.org