________________
मध्ये पटहो दापितः-यस्त्रिलोचनायाः भर्तुः शुद्धिं मदालसायाश्च मूलवृत्तान्तं कथयति तस्मै राज्यं दीयते ॥ सहस्रकला कन्या इति च । अथ च मासप्रान्ते एकेन शुकेन पटहः स्पृष्टः, प्रोक्तं च-भो भो राजपुरुषाः! नयत मां राजसभायां. अहं च राज्ञो जामातुर्मदालसायाश्च शुद्धिं पूर्ववृत्तान्तं कथयामि, जीवितोऽस्मि राज्यं । लप्स्ये, सहस्रकलां च कन्याम् । अहो पक्षिणोऽपि मम भाग्यानि जाग्रति । ततः कौतुकात्तैः पुरुषै तो । राजसभायां स शुकः, प्राह च-मदालसामत्रानय स्थापय च त्रिलोचनां यवनिकान्तरे, यथाऽहं त्रिकालज्ञानी सर्वं वदामि । राज्ञा तथा कारिते अहो शुकः कथंकारमतीतामनागतां च कथां कथयिष्यति ? कथं वा राज्यमस्मै राजा दास्यति ? कथं वाऽसौ तिर्यङ् राज्यं करिष्यतीति कौतुकादहमहमिकया मिलितेषु सर्वपौरलौकेषु पूर्व मदालसाकथां प्राह-यथा वाराणस्यामुत्तमचरित्रः क्षमापालपुत्रः, पोतमारूढश्च, स एव । समुद्रमध्ये जलकान्तगिरौ कूपमध्ये प्रविष्टः, पातालभवने लङ्काधिपस्य भ्रमरकेतुराक्षसस्य पुत्री मदालसा परिणीय कूपद्वारात् पुनर्बहिरागात् । समुद्रदत्तस्य पोतं सकलत्र आरूढः । पञ्चरत्नप्रभावात् । जलधान्येन्धनवस्त्रादिभिः पोतलोकान् सुखिनश्चकार । ततः समुद्रदत्तेन स्त्रीधनलोभात् समुद्रान्तस्तमिस्रायां
Jan Educ
a
tional
For Private
Personal Use Only
ANw.aneiorary.org