________________
क्षणमेवं दध्यौ-हा धिग् मां यदीदृशं मम मनोऽभूत् । यतः सहस्रशो नराः सदृशाकारा दृश्यन्ते, तेन मुधैवं । चिन्त्यते । रागकरणे महापातकं भवति । सरागदृष्ट्या निरीक्षणेन सप्तमनरके पातो भवति । पुनरपि| धर्मैकलीनचित्ताऽभूत्सा । इतः कुमारेण पृष्टा-प्रिये! कैषा वृद्धा नारी सम्प्रति गृहमागत्य गता?। सा प्राहप्राणेश! मम प्रतिपन्नभगिन्या मदालसाया वैदेशिक्या दासी। तत् श्रुत्वा क्षणं मम भार्याऽसाविति रागी जातः। पुनरपि ध्यातं तेन-हा मया मुधा चिन्तितमिदमिति पुनः पुनः खं निनिन्द। इतश्च-अन्यदोत्तमचरित्रो मध्याह्ने जिनपूजार्थं खगृहसमीपप्रासादे गतः । ततः क्षणान्तरे प्रियमनागतं मत्वा त्रिलोचना तस्य पत्युर्विलोकनाय |
दासी प्रेषयामास । दास्या सर्वत्र विलोकितोऽपि न लब्धो यदोत्तमचरित्रस्तदा त्रिलोचना तावदुःखिताऽजनि । IN अथ च तत्रैव पुरे महेश्वरदत्तो महेभ्योऽभूत् । तस्य श्रेष्ठिनो निधौ ५६ षट्पञ्चाशत् कलान्तरे ५६ षट्पञ्चाशत् |
व्यवसाये च ५६ षट्पञ्चाशत् सुवर्णकोटयः, ५०० पञ्च शतानि यानपात्राणि ५०० पञ्च शतानि शकटानि ५०० पञ्च शतानि गृहाणि ५०० पञ्च शतानि हट्टानि ५०० पञ्च शतानि वक्षस्कारिकाः ५०० पञ्च शतानि वणिक् | पुत्राः ५०० पञ्च शतानि गोकुलानि प्रत्येकं दशदशगोसहस्रमानानि ५०० पञ्च शतानि गजाः ५०० पञ्च शतानि
मरते.४०
Jan Education Us
For Private Personel Use Only