SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते. श्वरवृत्तिः॥ काचरित्र कुमार ॥२३४॥ योग्याय कुमाराय त्रिलोचनां दत्त्वा निश्चिन्तो भवामि । ततः सुमुहूर्ते महता महेन राजा तस्मै खां पुत्री उत्तम-- त्रिलोचनां ददौ । ततश्च कुमारः पूर्वपुण्यानुभावेन कृतपाणिग्रहो राज्ञा दत्ते महत्यावासे सुखं तस्थौ । इतश्चमदालसा दासी प्रति प्राह-हे सखि ! अद्यापि तस्य भर्तुः कापि शुद्धिर्न लब्धा । ततः समुद्रमध्ये पश्चत्वं चरित्रम् । गतः सम्भाव्यते, तेन भ; विना मम जीवितेन किं ?, मया तु दानानि सुपात्रेषु दत्तानि रत्नानुभावेन द्रव्य| कोटिव्ययात्, जिनालयानि भूरिशः कारितानि, कृतानि साधर्मिकवात्सल्यानि, लेखितानि जिनागमपुस्तकानि, आराधितः श्राद्धधर्मः । अथ रत्नपञ्चकं मम भगिन्यास्त्रिलोचनाया वितीर्य जैनी दीक्षा ग्रहीष्यामि । ततो दास्योक्तं खामिनि ! मैवं विषादं कुरु । यतो राजसुतायास्त्रिलोचनायाः साम्प्रतं कोऽपि वैदेशिकः सर्वगुणनिधानं भर्ता जातः श्रूयमाणोऽस्ति । कदाचित् स एव तव भर्ता वों भवेत् । यदि त्वमादिशसि तदाऽहं 7 तदावासे गत्वा विलोकयामि तम् । ततस्तदादेशाद्दासी त्रिलोचनागृहे गता, दृष्टश्चोत्तमचरित्रः, किञ्चिद्गोपिता-11 कृतित्वात् सम्यग् न प्रत्यभिज्ञातस्तया । क्षणमेकं त्रिलोचनया समं गोष्ठी कृत्वा पश्चात्स्वस्थाने दासी समागता । सर्व तद्रूपाकृत्यादि दास्या प्रोक्तं मदालसायाः पुरः । ततस्तद्रूपाकृतिश्रवणान्मदालसा सरागा जाता, २३४॥ Jain Educat i onal For Private & Personel Use Only IMrjainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy