SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २३३ ॥ Jain Education | प्राप ननाम नृपं च । राजाऽपि कुशलालापपूर्वकं प्रोवाच भद्र! कैषा योषा ?, स प्राह- खामिन् ! निःखामिकेयं मया चन्द्रद्वीपे लब्धा । तवादेशे सति मम कलत्रतां वाञ्छति । इत्युक्तं श्रुत्वा आः शांतं पापं, रे रे पापिष्ठ ! किमलीकं जल्पसीति, अश्रोतव्यमिदमिति कर्णौ पिधाय नम्रमुखा जाता स्थिता । प्राह च - राजन् ! मम भर्ताऽनेन दुरात्मना समुद्र क्षिप्तः । ततो रुष्टो राजा पञ्चशतपोतस्थं सर्वं वस्तु गृहीत्वा वक्षस्कारिकासु निक्षिप्य खमुद्रां ददौ । समुद्रदत्तमन्यायिनं कारागारे क्षिप्तवान् । वत्से ! मम पुत्र्यास्त्रिलोचनायाः प्रतिपद्य भगिनीभावमदूरवर्तिनि गृहे स्वसखीयुता सुखेन तिष्ठ, देहि दीनादिभ्यो ऽनिवारितं दानं । तव भर्ता कापि तटे लग्नो | भावीति तच्छुद्धिं करिष्यामीति समाश्वास्य मदालसां पुत्रीत्वेन प्रपद्यावासे स्थापयामास राजा । साऽपि तत्र | स्थिता रत्नपञ्चकमहिम्ना सञ्जातसर्वसम्पत्तिः प्रत्यहं दत्ते दानं जिनधर्मपरायणा । यतः - " जिनपूजनं विवेकः, सत्यं शौचं सुपात्रदानं च । महिमक्रीडागारं शृङ्गारः श्रावकत्वस्य ॥ १ ॥ सा मदालसा सतीजनोचितान् कत्यपि नियमान् ललौ - यथा भर्तृमिलनावधि भूमौ शयनीयं मया, स्नानं न कार्यं, वस्त्राणि पट्टक्कूलादीनिं | त्याज्यानि, पुष्पाङ्गरागविलेपनादि त्याज्यं, न ताम्बूलमाखाद्यं, लवङ्गादीनां फलानां च भक्षणे नियमः, शरीर For Private & Personal Use Only उत्तम. चरित्र कुमारचरित्रम् । ॥ २३३ ॥ ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy