________________
सुखिताः सन्तः कुमारमेव सेवयाऽभजन् । ततोऽन्यदा स्त्रीरत्नजिघृक्षया कृतमशिरोमणितया च लज्जा परित्यज्य । रलोकभयमप्यवगणय्य समुद्रदत्तः कुमारं रात्रौ समुद्रेऽपातयत् । ततो लोककोलाहले जातेरुरोद मदालसा अथ मरणोन्मुखीं तां दासी प्राह-वामिनि ! किं बालमरणेन म्रियसे ?, निषिद्धमेतज्जिनागमे, यतः-"रज्जुग्गही विसभक्खण, जलजलणपवेस तिण्हछुहदुहिओ । गिरिसिरवडणाउ मुया, सुहभावा हुंति वंतरिया ॥१॥” तेन । यथा तथा वचोभिः समुद्रदत्तो विप्रतार्यते शीलरक्षा च विधीयते । वायुरत्नप्रभावादभीष्टे तटे गम्यते । तत्र | चेत्तव भर्ता दिष्टया मिलति तदा भव्यं, नो चेत् प्रव्रज्या पारमेश्वरी । इति सखीवचः श्रुत्वा हृष्टा मदालसा तथैव चक्रे । इतश्चोत्तमचरित्रः समुद्रे पतितः केनापि महातिमिना ग्रस्तः, स च तटमायातः, धीवरैस्तिमि-I विनाशितः, स जीवन् कृष्टो मत्स्योदरात् धीवरैः कुमारो, महापुरुषोऽयमितिकृत्वा मैनिकैः सेव्यमानस्तिष्ठति । तत्र । अथ समुद्रदत्तेन यानानि खेष्टहीपं प्रति नीयमानान्यपि मदालसाध्यातवायुरत्नसमुत्पादितमारुतबलेन । दिनद्वयेन मोटपल्लीनामवेलाकूलं प्राप्तानि । तत्र च नरवर्मा नाम राजा परमार्हतः सकलधार्मिकाणां धौरेयो राज्यं करोति स्म । इतश्च मदालसा पुरस्कृत्य गृहीतमुक्ताफलादिप्रौढप्राभृतः समुद्रदत्तः पोतादुत्तीर्य राजसभां
Join Educa HETER
For Private Personel Use Only
H
ew.jainelibrary.org