________________
मायाविनी राक्षसजातिः, सावहितेन मयाऽत्र स्थेयमिति । इतश्च तत्रायाता मदालसा कुमाररूपं वीक्ष्य सानुरागाभूत् । कुमारोऽपि तस्या रूपमालोक्य सानुरागोऽभूत् । ततो द्वयोरप्यनुरागं वीक्ष्य वृद्धा गान्धर्व विवाहं कारयामास । ततः पृथिवीजलतेजोवाय्वाकाशरूपं रत्नपञ्चकं तदेवताधिष्ठितं सप्रभावाढ्यं मदालसां च तदासी च लात्वा । कूपमध्यमागतः कुमारः, सांयात्रिकजनमुक्तरज्जुप्रयोगेण बहिनिर्गतश्च, किमिदमित्याश्चर्यत्वरितगतिभिः प्रणतश्च कोऽप्ययं(सुरो)न मनुष्य इति विचारतत्परैः पोतनैगमैः । अध्यारूढः पोतं समुद्रदत्तोत्तमचरित्रादिजनः।
पुनरपि कियद्भिर्दिवसैः पुनरपि क्षीणे जले व्याकुलोऽभूत् । तदा सर्व लोकं जलं विना म्रियमाणमालोक्य मदाINलसाऽवग्-हे प्रियतम ! मम रत्नकरण्डके यानि रत्नानि सन्ति तेषां प्रभावं शृणु । भूदेव्यधिष्ठितं भूरत्नं, तत् ॥
पूजयित्वा याच्यते, ततो मणिकनकमयानि नानाविधानि स्थालकच्चोलकघटघटीकरकप्रभृतिभाजनानि प्रादु-ना भवन्ति, तथा शयनासनादीनि, तथा कलमसुगन्धशालिमुद्गगोधूमप्रभृतिधान्यानि तथा सन्मणिवर्णमयानि ll कटककेयूरादिभूषणानि तथा प्रादुर्भवन्ति मणिदेवताप्रभावात् १॥ द्वितीयस्माजलरत्नाद् व्योमधृताद्वांछितजलवृष्टिर्जायते अकालेऽपि २ ॥ तृतीयस्माद्वह्निरत्नात् गगनधृतात् सूर्यपाकरसवतीतुल्या विनाऽप्येयासि
Jain Educ
a
tional
For Private & Personel Use Only
T
ww.jainelibrary.org.