SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ कुमारो निर्भयस्तास्ताः स्वर्णकम्बाजालिका इतस्ततश्चकार । ततो हृष्टा लोकाः कुमारस्तुतिं कुर्वाणा जलं कर्षति । स्म । लोकैः सर्वाणि नन्दीभाजनानि जलेन भृतानि। इतः कुमारः कूपभित्तौ द्वारं मणिमयसोपानयुतं वीक्ष्य । दध्यौ-मया खभाग्यपरीक्षायै खं राज्यं त्यक्तं, तृणमिव चित्रकूटप्रभुणा दीयमानं राज्यमपि नादत्तम् । अब्धि-d मध्यस्थद्वीपे खजीवितमप्यनादृत्य भ्रमरकेतुराक्षसाल्लोका मोचिताः। साम्प्रतमपि कूपप्रवेशेन जलप्रकटीकरणेन । लोकानां जलेन तृषोपशमनादुपकारः कृतः । ततो कौतुकार्थमग्रतो गम्यते । अथवा कस्याप्युपकारः क्रियते । । ततः कुमारः सोपानमणिमयं प्रासादमग्रे गच्छन् ददर्श । प्रथमावनौ वृद्धैका स्त्री दृष्टा तेन, सा वृद्धा प्राह-भो का हीनपुण्य पुरुष ! किमर्थं कस्य बलेनात्राऽऽगास्त्वं ?, किं न वेत्सि भ्रमरकेतुं राक्षसम् ? । कुमारो जगाद-जानाम्यहं | भ्रमरकेतुं, परंगरुडकेतोरपि जेताऽहं को भ्रमरकेतुर्ममाग्रेऽम्ब!, सात्त्विकोऽहं निजौजसा एवात्रागतोऽस्मि कौतुकविलोकनार्थम् । वद वृद्धे ! कस्येदं स्थानं ? केनायं कूपःकारितः? कस्यायं प्रासादः? का च त्वम् ? एवं तस्य सावष्टम्भ । वचो निशम्य वृद्धाऽवदत्-सात्त्विकशिरोमणे ! शृणु। अत्रासन्ने राक्षसहीपे लङ्कायां भ्रमरकेतू राक्षसखामी अस्ति। तस्य मदालसा नाम्नी कन्या सर्वकलाविज्ञा सर्वस्त्रीलक्षणालङ्कृतशरीरा देवकुमारीवाऽऽस्ते । अन्यदा भ्रमरकेतुना Jain Education modal For Private & Personal Use Only Lihinelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy