________________
॥ श्रीभरतेश्वरवृत्तिः॥
॥ २३० ॥
Jain Education
| विधमध्ये जलकान्ताश्ममयपर्वतः प्रकटीभूतो दृष्टश्च तन्मध्ये महाकूपो लोकैः । राक्षसदंष्ट्रादर्शनान्मरणभीता पिपासया पीडिता अपि जना जलग्रहणार्थं नोत्तरन्ति पोतेभ्यः । इतः करुणापरीतचित्तः कुमार आकर्णाकृष्टकार्मुको | बद्धतूणीरः प्राह- उत्तरत उत्तरत भो भो जना ! जलार्थं, मा भैष्ट मा भैष्ट । मयि रक्षके सति राक्षसा वः किं करिष्यन्ति वासवादपि भवद्भिर्भयं नानेयम् । एवमुक्त्वा पोतादुत्तीर्य कुमारो राक्षसपार्श्वे तस्थौ । ततः सञ्जातनिर्भया लोकाः पोतेभ्य उत्तीर्य जलभाजनानि गृहीत्वा कूपकण्ठे गताः । रज्जुबद्धानि भाजनानि कूपमध्ये पानीयार्थं लोकाश्चिक्षिपुः । ततस्तदा जलं चुलुकमपि न निस्ससार । ततो ह्येकस्यापि नरस्य तृषा नोपशान्ता । अहो एते जनाः सत्यपि जले मरिष्यन्ति, यज्जलं न निस्सरति तदग्रे किमपि कारणमस्ति । एवं चिन्तयन्तोऽपि लोका राक्षसभयात् कोऽपि कूपमध्ये सम्यग् न विलोकते । ततो यानेशोऽवग्-अत्र कोऽप्यस्ति यः कश्विज्जलं मुत्कलं करोति ? तदा कोऽपि नोत्सहते, प्रविशत्यपि न, ततोऽतीव चिन्तापरपोतेशेन वार्यमाणः कुमारोऽन्यै रज्वालम्बनेन | सात्त्विकचक्रवर्ती लोककृपया कूपमध्यं प्राविशत् । कुमारः जलप्राचुर्येऽपि तदुपरि स्थितस्वर्णजालिकाछिद्रैः स्तोकमेव जलं ददर्श । कुमारो दध्यौ च - अहो कस्यापि महद्विज्ञानं यदीदृक्षाः स्वर्णकम्बाः कुत्रापि न दृश्यन्ते । इति ध्यात्वा
1
For Private & Personal Use Only
उत्तम
चरित्र
कुमारचरित्रम् ।
॥ २३० ॥
Swajainelibrary.org