________________
Jain Educ
| दृष्टः । ततः सञ्जातरागया तया नवनवहावभावादिविलासैः (प्र)क्षोभितः कुमारो, न क्षुब्धः मेरुरिव कल्पान्तवातैः । ततो हृष्टया तया देव्या सुवर्णरत्नकोटयो द्वादश पृथक् पृथक् तस्योपान्ते मुक्त्वा देवी तस्य स्तुतिं कृत्वा स्वस्थानं गता । इतश्च समुद्रदत्तः पोतवणिग् ५०० यानपात्राणि गृहीत्वाऽपरद्वीपं व्रजन् ध्वजचिह्नं दृष्ट्वा कुमारोपान्ते समागमत् । कुमारं १२ सुवर्णकोटि १२ रत्नकोटियुतं दृष्ट्ा पोतवणिक् निजे यानपात्रे तं कुमारमारोहयत् । अथ वार्डिमध्ये प्राप्तेषु यानपात्रेषु जलखल्पतया जनानां गलतालुशोषे जायमाने हा धिग् जलचरेभ्योऽपि हीनसत्त्वानस्मान् । हा जलमध्यगता अपि वयं पिपासया म्रियामहे । जलचरा हि जलाभावे म्रियन्ते । इति दीनं विलपत्सु लोकेषु निर्यामकः शास्त्रं विलोक्य प्राह-भो वेलाम्भसि वलमानेऽत्र जलकान्तमयो जलैरस्पृष्टः पर्वत एकोऽत्र प्रकटीभविष्यति । तत्र चैकः सुखादुजलः कूपोऽस्त्यगाध इति निर्यामकपरम्परया मया श्रुतम् । तदत्र यानपात्राणि स्थापयित्वा पानीयं गृह्यते । परमिदं भ्रमरकेतुराक्षसस्थानं, स च महामांसाशी षट्सहस्रकोणपयुतो विद्यते । तटोत्तीर्णा जनास्त्वया भक्षणीया नच यानपात्रस्था इति समुद्रदेवेन कृपया शपथं कारितो, निजेच्छया स राक्षसोऽत्र तिष्ठति स्म । एवं निर्यामकवचनश्रवणानन्तरं वलिते वेलापयसि तत्रा
mational
For Private & Personal Use Only
www.jainelibrary.org