SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तिः॥ ॥ २२८ ॥ | परोपकारी द्वासप्ततिकला कुशलोऽत्यद्भुतसौभाग्यश्च । यतः - “बावत्तरि कलाकुसला, पंडियपुरुसा अपंडिया चेव । सव्वकलाणं पवरं, जे धम्मकलं न याति ॥ १ ॥” सोऽन्यदोत्तमचरित्रः स्वभाग्यपरीक्षाकृते देशान्तरं प्रति चचाल रजनौ । क्रमेण नानापुरग्रामादि विलोकयन्नुत्तमचरित्रश्चित्रकूटाह्वं शैलं प्राप । तत्र मेदपाटमालवक - | सपादलक्षमरुमण्डलमहाराष्ट्रकर्णाटप्रभृतिजनपदप्रजाः पालयन् महासेनभूपः परमार्हतो राज्यं करोति । स राजा | पाशमिव गेहवासं पश्यन् निष्पुत्रकतया राज्यधुरन्धरं कमपि नरं विलोकयन् वैराग्यवासितोऽभूत् । स चान्यदा वाह्याल्यां परिजनानुवृत्त्या जगाम । सर्वाश्वलक्षणलक्षिततनुं कृष्णच्छविमेकं किशोरकं वाहयामास सः । परं | तस्याश्वस्य त्वरितगतिर्न । ततो भूभुजा मन्त्रिणः पृष्टाः । केचिदपि गतिमान्धकारणं न विदन्ति । तदा तत्रा - गतस्तं तुरङ्गमं दृष्ट्डोमचत्तरित्रः प्राह - अनेनाश्वेन महिषी दुग्धं पीतं तेनास्य वेगो न वर्योऽस्ति । तस्य दुग्धपानं वातोत्पादक । तदाकर्ण्य भूभुजोक्तं वत्स ! कथमिदं वेत्सि ? | उत्तमचरित्रोऽवग् - अश्वपरीक्षां जानाम्यहमशेषाम् भूपो जगाद - वत्स ! यत्त्वयोक्तं तत्सत्यं परं किं क्रियते ? | किशोरस्यास्य माता मृता, ततोऽयं महिषी| दुग्धं पाय्यते । उत्तमोऽवक् - चलनेनेदं मया ज्ञायते । यतः - " आचार: कुलमाख्याति, देशमाख्याति भाषि " Jain Educationational For Private & Personal Use Only उत्तमचरित्र कुमारचरित्रम् । ॥ २२८ ॥ w.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy