________________
शर्करायतं दुग्धं मुनीनां धनदेवो विहारयति । सोऽहं मृत्वा देवो जातः । धनदत्तोऽन्यदा इक्षुरसं घृतभृतं घट मुनिभ्यो दत्ते स्म, वारत्रयं भावखण्डना, स मृत्वा कुमार! त्वं जातः । दानप्रभावाद्भार्याप्राप्तिः। खण्डनत्रयेण । वियोगः। जलधिपतितो मयैवोत्पाट्य तापसाश्रमे त्वं मुक्तः, मयैव त्वं वामनीकृतः। यतस्तव शत्रुमैत्री सोऽत्र । वर्तते । ततो मयैव त्वं कुरूपश्चक्रे इत्युक्त्वा देवो जगाम । ततः चतस्रोऽपि धनवत्याद्यास्तं जजुः । कुमारस्य जातिस्मरणं जातं । मन्त्री देशान्निष्कासितः । भार्यायुतो गगनमार्गेण स खट्टामारुह्य सिंहलद्वीपं प्राप्तः । पित्रा राज्यप्रदानं कृतम् । कन्थाप्रभावेण विश्वमदरिद्रमिव व्यधात् । क्रमात् सिंहलसिंहो दीक्षां लात्वा षष्ठदेवलोकं | गतः । इति दाने धनदेवधनमित्रकथा समाप्ता ॥ ५३ ॥ ददानः शुद्धवस्राणि, भक्तितो धर्मचारिणाम् । जायते मानवः सच्छ्रीपात्रमुत्तमवृत्तवान् ॥१॥
तथाहि-वाराणस्यां पुरि श्रीमन्मकरध्वजभूपतेः। राज्ञी लक्ष्मीवती नाम्ना, बभूव गुणशालिनी ॥१॥ तयोरुत्तमचरित्रः पुत्रोऽभूत् , यथार्थनामाऽजनि । शैशवेऽपि दयालुः सत्यवादी न्यायमार्गकुशलः । उत्तमचरित्रो । धर्मकर्मशास्त्रविदुरः। तृणमात्रमपि वस्तु अन्यदीयं न कदापि गृह्णाति स्म । परस्त्रीविरतः सन्तोषी देवगुरुभक्तः
Jain Educa
t ional
For Private
Personel Use Only
www.jainelibrary.org