________________
प्रतिदिनं टण्कशतदात्री, एका च खट्वा आकाशगामिनी । कुलपतिं नत्वा चटितः सप्रियः कुमारः खट्वायां । धनवती मनसि कृत्य । चालिता खट्वा । सा आकाशगामिनी आकाशमार्गेण कुसुमपुरोद्याने गता।रूपवत्यास्तृषा लग्ना । कुमारः प्रियां कन्थां खटां च मुक्त्वा पानीयार्थ निकटावटे गतः । तत्र कूपे कुमार ! अस्मादन्धकूपात् । कर्षय इति मनुष्यभाषया ब्रवाणः सप्पो दृष्टः । स च कुमारेणोत्तरीयं मुक्त्वा कर्षितः । सर्पण च कुमारो दष्टः हस्ते. कब्जरूपश्च बभव । कमारेणोक्तं-भो सर्प ? भव्यः प्रत्यपकारः कतस्त्वया । सर्पः प्राह-भो कुमार! एष
एव प्रत्युपकारं करिष्यति । सङ्कटे स्मरणीयोऽहमित्युक्त्वा तिरोदधे सर्पः । कुमारः किमिति विस्मितमानसः जापानीयं लात्वा भणति-प्रिये पानीयं पिब । सा कुब्जरूपं दृष्ट्वा न मत्पुरुष इति तत्संमुखं विलोकयत्यपि न । सतत उत्थाय सर्वत्र गवेषयति खं प्रियम्। क्वाप्यदृष्ट्वा प्रियमेलकतीर्थे गता तथैव तपस्तपति।तिस्रोऽपि मीलित
नयना मौनव्रतधारिण्यस्तिष्ठन्ति, विकृतिपरिवर्जितं धार्मिकजनोपनीतमाहारं भुञ्जते । राजाऽपि कुतूहलेन तत्रागच्छति । पटहं वादयति य एता वादयति तस्य स्वसुतां कुसुमवतीं ददामि । ततः कुब्जरूपधारी कुमारः । पटहं स्पृशति । ततः कोरकपत्राणि वेष्टकेनाच्छाद्य तत्रागच्छति । राजसंमुखं वस्त्रमुत्सार्य कोरकपत्राणि वाच
Jain Educat
i onal
For Private & Personal Use Only
Taujainelibrary.org