________________
॥ श्रीभरतेश्वरवृत्तिः॥
॥ २२६ ॥
Jain Educatio
एकदा तया पृष्टः सपत्नीर्ष्याभयेन समयोचितमुत्तरं ददौ-देवि ! ममैवं प्रतिज्ञा । देसावलोअणत्थं, निग्गच्छंतस्स मह इय पन्ना । बंभं भूमीसयणं, जा नियजणए न पिच्छामि ॥ १ ॥ रत्नवत्या प्रोक्तं - नाथ ! त्व धन्योऽसि । यतो भक्तिः पित्रोरुपरि । राज्ञाऽपि कुमारः पृष्टः स्वनृपस्वदेशकुलादि कथयति । ततो राजा रत्नवतीयुतं कुमारं बहुवस्त्रादिभिः सत्कृत्य सिंहलद्वीपं प्रति विससर्ज । सज्जीकृतं यानपात्रम्, आरूढः सप्रियः कुमारः । राज्ञा च रुद्राभिधः स्वमन्त्री संप्रेषणार्थं प्रेषितः । दृष्टा तेन मन्त्रिणाऽन्यदा कन्या । तस्यां लुब्धः । स कुमारो जलधौ पातितः ततो रत्नवती विलापान् करोति स्म । मन्त्री भणति - भद्रेऽहं सदाऽपि तव दासः, भव मम भार्या । तया चिन्तितं - नूनमेष दुरात्मा मम शीलभ्रंशं करिष्यति । तत् किमप्युत्तरं दत्त्वा शीलं रक्षामीति विचिन्त्य साऽव - दत् - भो मंत्रिस्तीरे गत्वा एतन्मृतकार्यकरणादनु त्वद्वचः करिष्ये । जलधौ गच्छत् प्रतिकूलवातैर्भमं प्रवहणं, लब्धफलका रत्नवती कुसुमपुरे प्रियमेलकतीर्थं प्राप्ता । साऽपि तथैव तपस्तपति । मत्र्यपि प्राप्तफलकः कुसुमपुराधिपस्य राज्ञो मन्त्री जातः । कुमारोऽपि जलधौ पतन् केनाप्युत्पाट्य तापसाश्रमे मुक्तः । कुलपतिरपि कुमारशरीरे राजलक्षणानि दृष्ट्वा खपुत्रीं रूपवतीं ददाति । जातं पाणिग्रहणं । हस्तमोचने दत्ता एका कन्था
tional
For Private & Personal Use Only
धनदेवधनमित्रकथा ।
॥ २२६ ॥
Jainelibrary.org