SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ मुक्ता । हस्ती तस्या उपरि दन्तप्रहारं ददाति । अस्मिन् समये कन्या नष्टा हस्तिपार्धात् । विस्तृता कुमारकीर्तिः । एतद्व्यतिकरं श्रुत्वा राजाऽपि हृष्टः । यतः-"गुणाः कुर्वन्ति दूतत्वं, दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्राय, स्वयं गच्छन्ति षट्पदाः ॥१॥” ततः सा कन्या धनवतीनाम्नी कुमारगुणानुरागिणी जज्ञे । तत्पिताऽपि धनश्रेष्ठी कुमारस्य तां ददाति । कृतं पाणिग्रहणम् । इतश्च यदा कुमारः पुरमध्ये क्रीडायै याति तदा पौरनारीवर्गः समग्रः खखकर्माणि त्यक्त्वा कुमाररूपं निरीक्ष्य हृतहृदयः पृष्ठलग्नो भ्रमति । पारैलोकै राजा विज्ञप्तः । राज्ञाऽपि कुमारो नगरान्तभ्रमन्निषिद्धः । देशान्तरं गन्तुकामो धनवतीं गृहीत्वा रात्रौ पुरान्निर्गत्य मार्गेण || गच्छन् समुद्रतटं प्राप्तः । आरूढो यानपात्रं धनवतीयुतः कुमारः । प्रतिकूलवातेन भनं यानपात्रम् । धनवती || फलकं लब्ध्वा वाढितीरे गच्छन्ती प्राप्ता कुसुमपुरम् । तत्र प्रियमेलकतीर्थे सा दुस्तपं तपस्तपन्ती यावर्ता न मिलिष्यति तावन्मौनव्रतं पालनीयमित्यभिग्रहं जग्राह । इतश्च-कुमारः प्राप्तफलकखण्डकः समुद्रमुत्तीर्य | ll रत्नपुरं प्राप्तः । तत्र रत्नप्रभराज्ञो रत्नसुन्दरीकुक्षिसमुद्भवा रत्नवती कुमारी सर्पण दृष्टा, मात्रिकैस्त्यक्ता, कुमारेण ।। पटहस्पर्शनात् पूर्व सा सज्जीकृता परिणीता च । कुमारो धनवतीवियोगेन भूमौ शेते, ब्रह्मव्रतं च पालयति.KI Jain Educati M For Private & Personal Use Only onal ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy