________________
॥ श्रीभरतेभ्वर वृत्तिः ॥
॥ ४८ ॥
Jain Education
| भीतः शान्तिकपौष्टिकादिकर्म कारयामास । स च देवः प्रतिदिनं तस्या नरकावासानदर्शयत् । राजा तु सर्वो| स्तीर्थिकान् बौद्धादीनाकार्य पप्रच्छ कीदृशा नरकाः कथ्यन्ते । केचिदाहुर्गर्भवासः, केचिदाहुर्गुप्तिवासः, केचिदारिद्र्यं, | केचित् पारतन्त्र्यं प्रोचुः राज्ञी तु बौद्धादिप्रोक्तं श्रुत्वा मुखं मोटयन्ती प्राह - एवंविधा नरका न विद्यन्ते । अथ भूपोऽ| न्निका पुत्राचार्योपान्ते गत्वाऽवग् - कीदृशा नरका भवन्ति ? ततो गुरुभिः प्रोक्तमिति । " इग तिन्नि सत्त दस सत्तर-ऽयर | बावीस तित्तीसा । सत्तसु पुढवीसु ठिई, जिट्ठोवरिमाइ हिट्टपुढवीए । होइ कमेण कणिट्ठा, दस वास सहस्स पढमाए ॥ | ॥ १ ॥ सत्सु खित्तजविअणा, अन्नुन्नकयाचि पहरणेहि विणा । पहरणकयाचि पञ्चसु, तिसु परमाहम्मियकयावि ॥ २ ॥ | राज्यपि गुरूक्तं श्रुत्वा प्राह - भगवन् ! भवद्भिरपि स्वप्नो दृष्टः ? सूरिराह जिनागमात् सर्व नरकादिस्वरूपं ज्ञायते । पुष्पचूलाचष्ट - भगवन् केन कर्मणा नरकाः प्राप्यन्ते ? गुरुराचष्ट - महारम्भपरिग्रहैर्गुरुप्रत्यनीकतया पञ्चेन्द्रियवधात् मांसाहाराच्च तेषु नरकेषु पतन्ति जीवाः । पुष्पवतीजीव सुरस्तस्यै स्वर्गानदर्शयत् स्वप्ने । राज्ञा तथैव स्वर्गस्वरूपं पृष्टाः पाख| ण्डिनः प्रोचुः । यद्वर्यपक्वान्नादि भक्ष्यते यत्पट्टकूलादि परिधीयते यद्वर्ययानासनादिषु उपविश्यते तदेव स्वर्गः कथ्यते । ततो | गुरुभिर्भूपभूप पत्नीपृष्टैरुक्तम्- सम्यक्त्वाराधनगृहियतिधर्मसेवनेन द्वादशदेवलोकेषु सुखानि प्राप्यन्ते । बत्तीसहावी
For Private & Personal Use Only
श्रीअनिका
पुत्राचार्यचरित्रम् ।
॥ ४८ ॥
ww.jainelibrary.org