________________
॥ श्रीभरतेश्वर वृत्तिः॥
चल्यतां मया भ्राता पर्यवसायितोऽस्ति । ततो देवदत्चो दध्यौ एवंविधा पत्नी स्नेहला पतिहितकारिणी कापि न दृष्टा। श्रीअनिकायतः-" श्वश्रूश्वशुरननान्द-पतिदेवरभक्तिका । धर्मकर्मरता पत्नी, सुभाग्यादेव लभ्यते ॥१॥” ततो देवदत्तः सप्रियः || चरित्रम्।
पुत्राचार्यउत्तरमथुरां प्रति प्रतस्थे । क्रमात्साधानाऽन्निका मार्गे सुतमसूत । जन्मोत्सवे कृते अन्निकाऽवग्-अस्य सुनोर्नाम श्वश्रूश्वशुरौ दास्यतः । तदा वर्त्मनि सर्वपरिवारोऽन्निकापुत्र इति उल्ललाप । क्रमाद्देवदत्तः स्वपुरं जगाम । मातापित्रोमिलितो विनयपूर्वकमन्निका श्वश्रूश्वशुरयोः क्रमयोः पपात । मातापितृभ्यां संधीरणेति नाम्नि दत्तेऽपि अनिकापुत्र इति । नाम पप्रथे। ततः सर्वेषामपि हर्षोत्कर्ष चकार वईमानः कुमारः। क्रमात् प्राप्ततारुण्योऽन्निकापुत्रो गुरूणां समीपे धर्म शृण्वानो धर्मपरो बभूवेति । “ जन्तूनामवनं जिनेशनमनं भक्त्याऽऽगमाकर्णनं, साधूनां नमनं मदापनयनं सम्यग्गुरोर्माननम्। मायाया हननं क्रुधश्च शमनं लोभद्रुमोन्मूलन, चेतः शोधनमिन्द्रियाश्वदमनं यत्तच्छिवोपायनम् ॥१॥' इत्यादि । धर्मोपदेशाकर्णनात् भोगांस्तृणवन्मन्यमानो जयसिंहाचार्यपार्श्वे दीक्षामग्रहीत् । अन्निकापुत्रो विनयपूर्वकं शास्त्राणि पठन् गुरुपार्श्वे आचार्यपदं प्राप । बहुपरिवारसहितो भव्यजीवान् प्रबोधयन् वार्द्धके पुष्पभद्रपुरं गङ्गातटस्थं प्राप । तत्र पुष्पकेतुर्नपो राजा राज्यं करोतिस्म न्यायात् । यतः “राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः।।
॥४७॥
Jain Educatiorll
ional
For Private Personel Use Only
Bilww.jainelibrary.org