SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Jain Education त्वं दूरे वर्तसे पुत्र ! वृद्धावावां बभूविव । त्वमेव चेदिहायासि, तदा नौ जीवितं भवेत् ॥ १ ॥ तं लेखं वाचयतरतस्य नेत्रे वर्षितुमश्रूणि लग्ने । ततस्तस्य प्रियया रोदनहेतुं पृष्टोऽपि यावन्न ब्रवीति देवदत्तः तावत्तया स्वयं लेखमादायेति अवाचि सः । तत्र चेदं लिखितमासीत् गुरुभ्याम् । यद्दत्सावां वृद्धौ निकटनिधनौ स्वः यदि त्वं जीवितं नौ वीक्ष्यसे तदा शीघ्रमत्रागन्तव्यं त्वया विचारो न कार्यः । ततस्तया प्रियया प्रोक्तं- स्वामिन् ! भवतो मातापितरौ वृद्धौ स्तः तेन तत्र गन्तुं विलोक्यते एव । देवदत्तो जगौ । मया पूर्वमुक्तमत्राहं स्थास्यामि । साम्प्रतं यास्यामीति कथं जल्प्यते मया । प्रतिज्ञाया भङ्गो भवति, प्रतिज्ञाभङ्गः केनापि न | क्रियते । यतः - " अर्थो विनश्यतु विरज्यतु बन्धुवर्गों, राज्यं क्षयं व्रजतु बन्धनमस्तु बाढम् । प्राणाः प्रयान्तु निधनं न तथापि सन्तो, धीरा निजानि वचनानि विलोपयन्ति ॥ १ ॥ तत्तियमित्तं जंपह, जत्तियमित्तं तु होइ निबाहो । वाया मुआण नासइ, जीवंता मा मुआ होंति ॥ २ ॥ " तदनुप्रिया प्राह-स्वामिन् मातापित्रोः समं तीर्थं नास्ति तेन तदर्थे कदाचित् | प्रतिज्ञाभङ्गः क्रियते तदा न दोषः । यतः - "माता गङ्गासमं तीर्थे, पिता पुष्करमेव च । गुरुः केदारसमं तीर्थ, माता तीर्थ पुनः पुनः ॥ ॥ १॥ " एवं पतिमाश्वास्य स्वभ्रातरं सुकुमालवचनेन पर्यवसाय्याऽन्तः स्नेहलाऽन्निका पतिं प्राह - स्वामिन् ional For Private & Personal Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy