________________
॥४६॥
॥ श्रीभरते- । पिते सति अस्य राज्ञः स्वयं सम्पदो बह्वयः समेष्यन्ति । एतदालोक्यामात्या राजपाद्येऽभ्येत्य जगुस्तस्थानस्वरूपम् । सोऽपि श्रीअन्निकाश्वर वृत्तिः।
पुत्राचार्यराजाऽतीव हृष्टः कमपि वृद्ध नैमित्तिकं विचक्षणं पप्रच्छ । अयं पाटलतरुः कीदृग्माहात्म्योऽस्ति ? ततो नैमित्तिकोऽव-IN
चरित्रम् । लग-अयं पाटलानोकहो न सामान्योऽस्ति, इति ज्ञानिना ममाग्रे प्रोक्तम् । पाटलद्दुः पवित्रोऽयं महामुनिकोटिजन्मा।
एकावतारी स मलजीवश्चेति विशेषतो मन्ये । राज्ञोक्तम् ॥ कतमः स महामुनिः? तदनुजगाद नैमित्तिकः ।। तथाहि-देव ! उत्तरमथुरायां देवदत्ताह्वो वणिक्पुत्रो वसतिस्म । सोऽन्यदा द्रव्यार्जनहेतवे, दक्षिणमथुरायामग-1 मत् , तत्र तस्य जयसिंहनाम्ना वणिक्पुत्रेण सह मैत्री जाता । तत्रान्येधुर्जयसिंहवणिग्गृहे भोक्तुं निमन्त्रितो देवदतोऽगमत् । तदा देवदत्तो भुञ्जानोऽन्निकाहां तज्जामि परिवेषयन्ती वीक्ष्य तस्याः सद्रूपालोकनादनुरक्तोऽजनि ।। यतः-“अरकाणऽसणी कम्माण, मोहणी तह वयाण बंभवयं । गुत्ताण य मणगुत्ती, चउरो दुक्खेण जिप्पंति ॥१॥ द्वितीयेऽहनि मित्रपार्धात्तां परिणेतुमयाचिष्ट देवदत्तः । जयसिंहोऽवग्-तस्मै स्वसारमिमां दास्ये यो मद्हारे न । भवति । इयं स्वसाऽतीव प्राणेभ्योऽपि वल्लभाऽस्ति, ततो देवदत्तेनोक्तम् भवद्वचः प्रमाणमेव । ततो वर्येऽहनि ६॥ तामन्निकां देवदत्तः पर्यणैषीत् । तया सह भुञ्जानस्य भोगान् देवदत्तस्यान्यदा पितृभ्यां लेखः प्रेषितः । तथाहि-d
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org