SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 692 नत्सु वैरिषु योऽत्यन्तं, क्षमां कुर्यात्सुभावतः। अनिकापुत्रसूरीश, इवानोति शिवश्रियम् ॥१॥ __ तथाहि-पूर्व राजगृहे नगरे श्रीश्रेणिको राजा राज्यं कुर्वन् श्रीवीरजिनपादाम्बुजसेवया बडतीर्थङ्करगोत्रो न्यायमार्गात पृथिवीं प्रशशास। यतः “राज्ञि धर्मिणि धर्मिष्ठाः, पापे पापाः समे समा राजानमनुवर्तन्ते, यथा राजा तथा प्रजा॥१॥" तस्य चिल्लणाद्या बह्वयो राक्ष्योऽभूवन् । कोणिकाभयकुमारमेघकुमारादयो बहवः पुत्रा आसन् । कोणिकः श्रेणिकं काष्टपञ्जरे क्षिप्त्वा राज्ये उपविष्टः । ५०० नाडीभिर्घातयति । मृते श्रेणिके चम्पा वासिता कोणिकेन । चक्रिरत्नानि कृत्वा खण्डत्रयं । साधयित्वा वैताढयाग्रेतनखण्डवयं साधयितुं गुहायां गतः। तन्निर्गतज्वालया दग्धः षष्ठनरकं गतः तत्पुत्र उदायीनामा राजाऽभूत् सोऽपि स्वपित्रा कारितानि सभाक्रीडाशयनादिस्थानानि दर्श दर्शमतीव खिन्नः शोकसागरे पपात । शून्य-d चित्तस्य राज्ञः सर्व राज्यकार्य विसस्मार । ततोऽमात्यैः प्रोक्तम्-स्वामिन् ! नवीनं पुरं स्थाप्यते । ततो नव्यं पुरं ।। निवेशयितुं नैमित्तिकवरान् वर्यस्थानगवेषणकृते आदिक्षत राजा। तेऽप्यमात्या वयं पुरस्थानं पश्यन्तो गलातटं प्रापुः। कुसुमपाटलं पाटलिपादपं सच्छायं वीक्ष्य चमत्कृताः। पाटलितरुशाखायां चापं व्यावास्यं स्वयं निपतत्कीटकपेटकं समीक्ष्य चेतस्येवं व्यचिन्तयंस्ते। अहो यथाऽस्य चाषविहङ्गमस्य मुखे स्वयमेव कीटाः पतन्तो विलोक्यन्ते तथाऽत्र स्थाने नगरे स्था Jan Education For Private Personel Use Only w .jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy