SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ णापर्वणि समायाते श्रीयकस्याग्रे प्रोक्तम् । अद्य वार्षिकपर्व विद्यते । अत्र यत् पुण्यं क्रियते, तस्य फलमनन्तं भवति । यतः-"एगग्माचित्ता जिणसासणंमि, पभावणापूयपरायणा जे । तिसत्तखुत्तो निसुगंति कप्पं, भवण्णवं ते लहु संतरंति॥१॥ । संवच्छरचाउमासीएसु, अट्ठाहीआसु य तिहीसु । सवायरेण लग्गइ, जिणवरपूयातवगुणेसु ॥ २ ॥” इत्युक्त्वा प्रथमं श्रीयको नमस्कारसहितं प्रत्याख्यानं कारितस्तया। ततः पौरुषी ततः साईपौरुषी । ततः पुरिमार्द्ध ततः । एकासनादि तावद्यावत् सन्ध्यायामपवासो यक्षया कारितः श्रीयकस्य । रात्री अकस्मान्मृतः श्रीयकः । ततो यक्षाऽतीवदुःखिता श्रीयकगतिज्ञानार्थ श्रीसङ्घसहिता कायोत्सर्ग चकार । ततः शासनदेव्या उत्पाट्य यक्षा महाविदेहक्षेत्रे श्रीसीमन्धरपार्श्वे मुक्ता । श्रीसीमन्धस्वामिपार्श्वे तया स्वचित्तचिन्तितस्वरूपं पृष्टम् । ततःश्रीसीमन्धरस्वामी जगौ-श्रीयको मृतः स्वायुषः क्षयादेव न पुनस्तपसा । शोको न कर्तव्यः। न केनापि जीवितव्यं बहुक्रियते । यतः-"नो विद्या न| च भेषजं न च पिता नो बान्धवा नो सुताः. नाभीष्टा कुलदेवता न जननी स्नेहानुबन्धान्विता । नार्थो नो|| स्वजनो न वा परिजनः शारीरकं नो बलं, नो शक्तास्त्रुटितं सुराः सुरवराः संधातुमायुर्भुवम् ॥ १॥” ततस्तया NS यक्षयोक्तं क्वोत्पन्नो मम भ्राता ? श्रीसीमन्धरस्वामी जगौ-प्रथमे सौधर्मे स्वर्गे भासुरद्युतिभाग् सुरोऽभूत् श्रीयकः, Jan Education Intematon For Private Personel Use Only
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy