________________
श्रीस्थूलभद्र श्रीयकयोःप्रव्रज्या
॥४४॥
श्रीभरते- स्थूलभद्रो नृपोपान्ते गत्वा धर्मलाभाशिषं ददौ । राजा जगौ किमिदं कृतम् । तेनोक्तं आलोचितम् । आसमन्ताल्लोचितं श्वर वृत्तिः॥
लोचः कृतः केशोत्पाटनात् यतो मन्त्रिमुद्रा दुःखदायिनी भवति ततो मयैवं कृतम् । यतः-"हस्ते मुद्रा मुखे मुद्र T, मुद्रा स्यात्पादयोईयोः । ततः पश्चाद्गृहे मुद्रा, व्यापारः पञ्चमौद्रिकः॥१॥" ततो राजा तादृक्षं त्यक्तसर्वगणिकादिसुखं प्रशशंसेति धन्यस्त्वं सहसा त्यत्क्वा. गणिकादि सखं गतम् । अलाः संयमसाम्राज्य-मनन्तसुखदायकमायत:व्रतदानतत्परधियो नित्यं जिनेन्द्रार्चकाः, धर्मध्याननिरस्तकल्मषविषाश्चैत्यालयोद्धारकाः । सहिम्बान्यपि कारयन्ति निपुणास्तेषां प्रतिष्ठा पुनः, सच्छास्त्रश्रवणैककर्मकुशला ये श्रावकाः स्युः क्षितौ ॥१॥ ततो धर्माशिषं भूपाय वितीर्य स्थूलभद्रो वनं गतः। तत्र श्रीसंभतिविजयगुरुपादान्ते विधिवत् प्रव्रज्यां जग्राह । अथ राजा श्रीयकस्य महामात्य. मुद्रां प्रसादीचकार । श्रीयको राज्यव्यापारं कुर्वन् वारत्रयं जिना!भयकालप्रतिक्रान्त्यादि धर्मकृत्यं करोति । सप्तक्षेत्र्यां स्वधनं व्ययतिस्म च । जिनेन्द्रप्रासादशतं धर्मशालाशतत्रयं कारयामास च । यतः-" जिणभवणबिंबपुत्थयसंघसरूवेसु सत्तखित्तेसु । ववियं धणंपि जायइ शिवफलइ अहो अणंतगुणं ॥१॥"क्रमाच्छ्रीयकः क्षितिपपार्थात् स्वपुत्रस्य मन्त्रिमुद्रां दापयित्वा श्रीगुरुपार्श्वे दीक्षा जग्राह । एकदा यक्षया महासत्या स्वभगिन्या श्रीपर्युष
॥४४॥
Jain Education !
For Private & Personel Use Only
allw.jainelibrary.org,