________________
गर्जितम्। नारीबालवचोऽमोघं, अमोघं देवदर्शनम् ॥१॥इति बालवचः सत्यमवगत्य मन्त्रिगृहे सिंहासनछत्रचामरादिकं निष्पद्यमानं निशम्य सचिवाय चुकोप, मन्त्रिणं हन्तुं सकुटुम्बं (राजा तत्परोऽभूत् ) तं वृत्तान्तं निशम्य मन्त्री एकदिनमारकविषमश्नातिस्म । ततः कताराधनको मन्त्री श्रीयकमाकार्य प्राह-मया तु विषं भक्षितं सन्ध्यायां मरणं|| भविष्यति । राजा तु आत्मनः कुटुम्बस्योपरि रुष्टोऽस्ति । तेन त्वं मारय माम्, ततः सर्वकुटुम्बस्य कुशलं भविष्यति | ततो यावच्छकडालो राजानं नन्तुं गतस्तावद्राजा पराङ्मुखो बभूव । इतः श्रीयकोऽभ्येत्यावग्-यो राशि द्रोही भविष्यति । तस्यानेनासिना शिरः छेत्स्यते मयेत्युक्त्वा पितुः शिरः कमलनालवत् चिच्छेद । ततो द्रुतं राजा सन्मुखीभूयावग्-भो श्रीयक ! कथं मुघा त्वया पिता हतः । श्रीयकोऽवग् यो राज्ञि मम स्वामिनि द्वेषी भविष्यति तस्यैवंविधा शिक्षा दास्यते । ततो राजा प्रसन्नीभूयावग-त्वया मुधा किं पिता मारितः। ततः श्रीयकेन विप्रस्वरूपं प्रोक्तम्ततो राजा विप्रस्य देशत्यागं प्रोक्तवान् । ततः शकडालस्याग्निसंस्कारे कृते श्रीयकं प्रति राजावग-त्वमेव धन्यः सेवकशिरोमणिरसि । यादृग शास्त्रे वर्ण्यते सेवकस्ताग त्वमेव दृश्यसे । यतः " युद्धकाले प्रगो यः स्यात, सदा | पृष्टानुगः पुरे । प्रभो राश्रितो हम्ये, स भवेद्राजवल्लभः ॥ १ ॥ जीवेति प्रब्रुवन् प्रोक्तः, कृत्याकृत्यविचक्षणः ।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org