________________
चौर्योद्यमे । शृङ्गारे पणयोषितां च वणिजां पण्ये कृषौ क्षेत्रिणां, पापानां मधुमासयोः सुकृतिनां धर्मोपकारोत्सवे ॥१॥al तस्य विशेषतो भूपतेः श्रीयको विश्वासभाजनमजनि । अङ्गरक्षाकारी श्रीभारत्या लब्धवरोऽभूच्च । प्रतिदिनं वररुचिहिजो नूतनं कृतमष्टोत्तरं शतं काव्यानि नन्दाय प्राभृतीकुरुते । मिथ्यात्वमयानि काव्यानि मत्वा शकडालो न | प्रशशंस नन्दाग्रे । ततो भूपो द्विजन्मने किमपि न दत्ते । पारितोषिकमलभमानो हिजो विषादं प्रपेदे। मन्त्रिणा महीपतेर्मिथ्याक्संसर्गपरिहारायैकदा प्रोक्तम्-यानि काव्यानि हिजो जल्पति भवतोऽग्रे तानि मत्पुत्रीणां समायान्ति । जीर्णानि आनयति काव्यानि नवीनानि कथयति द्विजः राज्ञोक्तमेकदा श्रूयन्ते काव्यानि । ततः शकडालपुत्र्यस्तत्र सभायामैयुः । हिजोऽपि प्रातः पञ्चशतकाव्यानि कृत्वाऽगात् । एकवार तेन जल्पितानि यदा । ततः एकसंस्थिकया पुत्र्या तानि सर्वाणि प्रोक्तानि । ततो द्वितीयया ततस्तृतीयया ततश्चतुर्थ्या एवं सप्तम्या । ततो राजा चमत्कृतो जगौ । मन्त्रिनेता पुत्र्यस्ते साक्षाहारत्यो बढ्योऽवतीर्णाः। ततो राजा वररुचेारप्रवेशनिरोधमकरोत् । अथ स हिजोऽष्टोत्तरेण काव्यशतेन प्रत्यहं प्रातर्गङ्गां स्तुवन् दीनाराणामष्टोत्तरं शतं लभते । इति प्रसिद्धिः सर्वत्र लोके ।। प्रससार । तं द्विजं लोकाः स्तुवन्ति । अहो असौ द्विजो भाग्यवान् प्रज्ञावान् पूर्वमनेन ज्ञानमाराधितम् । यतः
For Private
Personel Use Only
aw.jainelibrary.org