________________
भिक्षा - मात्मलयब्धैव कर्हिचित् । करिष्यामि तदा नाथ ! पारणं ढण्ढणो जगौ ॥ ९ ॥ इति कृताभिग्रहो ढण्ढणस्तस्यां पुय्यौ भिक्षार्थं भ्रमन्नपि ग्रासमात्रमपि न प्राप । ततोऽन्यदा प्रभुपार्श्वे ढण्ढणेनोक्तं, भगवन् कथं न मे शुद्धभिक्षाप्राप्तिर्भवति । नेमिनाथोऽवगु - पुरा मगधदेशे धान्यपूरकग्रामे परासराह्नः कुलपुत्रकोऽभूत् राजकृषि - चिन्तकश्व, क्षेत्रेषु खेटनं कारयन् भक्ते समागते पञ्चशतहलसक्तवृषभान् हालकांश्च वृषभछोटनवेलायां जाताया| मपि नामुञ्चत् । वृषभहालिकामुञ्चनार्जितनिकाचितान्तरायकर्मा मृत्वा, परासरो भवं भ्रान्त्वा क्रमादिह कृष्ण| पुत्रो ढण्ढणनामाऽभवस्त्वम् । इति प्रभुवचो निशम्य तदैव कर्म्मनिर्मूलयितुं यतते ढण्ढणः । कदाचित् भिक्षायां लब्धमोदकः प्रभोः पार्श्वे पप्रच्छ मम प्राग्भवकर्म क्षीणं न वेति ? भगवानभिदधे । 'कन्हरस लडी नहु ढण्ढणस्स ।" ततः कृष्णलब्धि श्रुत्वा मोदकान् परिष्ठापयितुमिच्छुरिष्टिकापा के गत्वा मोदकांवर्णयन् शुक्लध्यानात् | केवलज्ञानमाससाद |
॥ इति ढण्ढणकुमारकथा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org