________________
श्रेणिकोऽकस्माज्जागरितः श्रुत्वेदं दध्यौ इयं मे प्रिया व्यभिचारिणी विद्यते अस्या मत्तोऽप्यपरः कोऽपि पुरुषो वल्लभः । विद्यते विचारोऽत्र न कार्यः ततो नूनं दुःशीला एवं ध्यायति राज्ञि सूर्य उदियाय । प्रातराहूयाभयं प्रति पृथिवीशो || || जगौ । इदं मदीयमंतःपुरं दुराचारं विद्यते, तेन प्रचाल्यतां द्रुतमिदमन्तःपुरं त्वया विलम्बो न कार्यः । ततोऽभयो दध्यौ । राजाभिप्रायो न ज्ञायते सम्यग् । किमर्थ राजैवं जल्पतीति विमृश्याभयः प्राह-प्रमाणं तात ! ते वचः।। ततः श्रेणिकः प्रातर्जिनपार्श्वे जगाम श्रुत्वा धर्म वीरं पप्रच्छ भगवन् ! मदीयाः पत्न्यः सर्वाः सत्यो न वा ? भगवन्नाहचिल्लणाद्याः सर्वाः सत्य एव । श्रुत्वेति प्रभुपार्श्वे त्वरितं पश्चादवले श्रेणिकः । इतोऽभयो दध्यौ मम तातेन यदादिष्टं तत् केनापि कारणेन भविष्यति, सहसा कृतं कार्य विषादाय भवतीति विमृश्य कियन्ति गृहाणि उद्वसानि कृत्वा ज्वालितानि । अभयकुमारेण । ततः समवसरणसंमुखं निस्ससाराभयः। वर्त्मनि श्रेणिकोऽभयस्य मीलितः । जगाद किं कृतं त्वया? अभयोऽवक् । त्वदुक्तं कृतं मया। श्रेणिको जगाद-गच्छ परो मद्दृशोः, मुखं मा दर्शय । एवं कोऽपि अविमृश्य कार्य । करोति। तातवचः प्रमाणमिति प्रोक्त्वाऽग्रतो गत्वा-वीरपार्श्वे दीक्षां जग्राह । इतः श्रेणिको गृहेऽभ्येत्य उद्वसकुटिराणि ज्वालितानि दृष्ट्वा दध्यौ। अहं वाहितस्तेन छलेन दीक्षा गृहीता भाविनी अभयेन । ततो मुष्टिं बद्ध्वा यावत्समवसरणे याति
Jain Education in
For Private & Personel Use Only
jainelibrary.org