________________
॥ श्रीभरतेश्वर वृत्तिः ॥
॥ ३९ ॥
Jain Education
त्वत्पुत्रो भूत्वा यदि व्रतमार्गे न साधयिष्यामि तदाऽहं दुर्भाग्योऽभूवम् । त्वं कृपां कृत्वा दीक्षां दापय । अथ भूपतिः प्राह-यदाऽहं क्रोधेन त्वां प्रत्येवं जल्पामि दूरे ब्रज मुखं मा दर्शय, तदा त्वं वत्स ! व्रतमाददीथाः । अभयोऽवक्- | तात त्वदीयं वचः प्रमाणमेव । ततो जनकं नत्वा स्थानकेऽभ्येत्यैवमभयो दध्यौ । वज्रेण वज्रं तु यथा तथाऽस्ति, वेध्या स्वबुद्धया नृपबुद्धिरेषा । ध्यात्वेति धीमानभयोऽथ भूपं निषेवते प्रत्यहं मुग्धभक्त्या ॥ १ ॥ अथैकदाऽतीव शीते। | स्फीते पतति लोका अतीव जाड्यपीडिता बभूवुः । यथा - निशासु सन्ध्यासु दिनेषु यस्मिन् पुरःपुरः पृष्ठिनिवेशितेन । रोरैर्नरैजनुकृशानुभानु-त्रयेण शीतं क्रमतो विनीतम् ॥ २ ॥ गाढं वल्लभतामवाप दहनो जाड्यं जने जल्पति, मान्यत्वं बत बालकस्य शिरसा दोषाः प्रवृद्धिं गताः ॥ दृश्यन्तेऽपि च पञ्चषाः सुमनसोऽवन्यां सदा मोदिनः, इत्थं सम्प्रति शीतका| लतुलनामालम्बतेऽसौ कलिः ॥३॥ इतः श्रीवीरजिनो राजगृहपुरा सन्नवने समवासार्षीत् । श्रेणिकस्तत्र गत्वा परमेश्वरं नत्वा धर्मे श्रुत्वा चिह्नणादेवीयुतः पश्चाद्दवले । वर्त्मनि नद्युपकण्ठे साधुमेकं कायोत्सर्गस्थितं शान्तं दान्तं नत्वाऽपराह्ने | स्वगृहमाजगाम । राजा जिनपूजां कृत्वा भोजनं चकार । रात्रौ श्रेणिकः सुप्तः, चिलणा राज्ञी जागरिता तं यतीश्वरं स्मृत्वा प्राह । 'अहो एवंविधे शीते पतति जीवप्राणान्तकरेऽघुना स कथं भावी' इति प्रियावचः श्रुत्वा
For Private & Personal Use Only
श्रीनुदायनराजर्षेः चरित्रम्
॥ ३९ ॥
www.jainelibrary.org