SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ कारितोऽपि वा । अनुमोदितो वा राजेन्द्र !, पुना त्यासप्तमं कुलम् ॥३॥ बुधैर्विधीयतामेको, धर्मः परमबान्धवः । ददिरे | मदिरावत्यो, येन वाञ्छित सिद्धयः ॥ ४ ॥ दुःखं स्त्री कुक्षिमध्ये प्रथममिह भवेत् गर्भवासे नराणां, बालत्वे चापि दुःखं मलमलिनवपुःस्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या वदत यदि सुखं | स्वल्पमप्यस्ति किञ्चित् ॥ ५ ॥ संझरागज लबुब्बु उव मे, जीविएवि जलबिंदुचंचले । जुळवणे य नइवेगसंनिभे, पात्र जीव ! | किमयं न बुज्झसि ॥ ६ ॥ श्रुत्वेत्यादि वचो धर्म-नायकस्य मुखात् पुरा । वैराग्यवासितस्वान्तोऽभवदुदायिनो नृपः ॥ ७ ॥ प्रभावतीप्रिया कुक्षिभव (मभीचिनामकम् । राज्ये मग्नो हि दुर्गतिं माऽगात् दुःखप्रदामिति ॥८॥ प्रियं पुत्रं स्वकं मुक्त्वा । | जाम्याः ) केश्याख्यनन्दनम् । राज्ये निवेशयामासोदायनो धर्मतत्परः ॥ ९ ॥ ततोऽस्मात्कारणादयमुदायनो राजा दीक्षां जग्राह । अस्मिन्नेव भवे कर्मक्षयं कृत्वा मोक्षं गमिष्यत्येषः । ततः प्राञ्जलिरभयः प्राह । भगवन् कोऽन्यो राजर्षिर्मुक्ति गतो | भविष्यति । प्रभुराचष्टायमेवान्त्यो राजर्षिः केवली उदायिनः । ततोऽभयः प्रभुं नत्वा गृहे गत्वैवं श्रेणिकपार्श्वे प्राह । मम | दीक्षाग्रहणकृते प्रसन्नीभव । यथाऽहं सर्वकर्मक्षयान्मुक्तिं गमिष्यामि । ततः श्रेणिकोऽवक्- दीक्षाग्रहणविषये भमावसरोऽस्ति, भवतो राज्यकरणेऽवसरो विद्यते । एवं कथं जल्प्यते त्वया । त्वमेव मम राज्यवर्द्धने समर्थोऽसि । अभयकुमारः प्राह । Jain Education Interna For Private & Personal Use Only ww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy