________________
॥ श्रीभरते
श्वर वृत्तिः ॥
॥ ३७ ॥
Jain Education
$
यः कूपकण्ठस्थो मुद्रां परिदधाति स कथनीयो मम, अपरो यो नरो मन्त्री वा परिधत्ते तदपि ममाग्रे कथनीयम् । सर्वे मन्त्रिणो दर्श दर्श मुद्रां कूपकण्ठस्थाः खिन्ना जजल्पुश्चेति । कोऽपि कौहतिको मण्डितोऽस्ति राज्ञा आत्मना - |मपाये पातयितुम् । ततोऽन्येऽपि पौरा लोका आगताथ, तत्रैत्य मुद्रां कर्षयितुमुपक्रमं चक्रुः तेऽपि खिन्नास्तदा । इतः सुनन्दा पुत्रमसूत । तस्याभयकुमार इति नाम ददौ । वर्द्धितः क्रमालेखशालायां मुक्तः क्रमात् पण्डितोपान्ते पठन | शास्त्राण्यन्येद्युरपरैर्लेखशालकैः कलहं कुर्वद्भिरुक्तम्, निःपितृकोऽयम्, ततोऽभयः खिन्नो गेहेऽभ्येत्य पितृस्वरूपं पप्रच्छ | मातरम् । मात्रा प्रोक्तं न ज्ञायते अत्र पूर्व परिणीय मद्गर्भे त्वामुत्पाद्या कस्माद्विदेशं गतः । खिन्नोऽभयोऽवग्-मम पित्रा गच्छता किमपि जल्पितं किमपि दर्शितम् अक्षराणि वा दत्तानि तुभ्यम् ? माता प्राह-तेनातो गच्छता अस्मिंश्च चित्रशालाभारपट्टके अक्षराणि लिखितानि सन्ति । ततो भारपट्टस्थानि अक्षराणि वाचयित्वा कुमारः पितृस्वरूपं जज्ञे । कुमारो हृष्टो मातृसमीपमभ्येत्यात्रग् च । ज्ञातं मया पितृवरूपम्, यत्र मम पिताऽस्ति तत्र गमिष्यामि । मात्रा प्रोक्तमहं सार्थे । समेष्यामि । ततो वृद्धपितरं मातरमुत्कलाप्य राजगृहं प्रति चचाल कुमारः । कियन्तीं भूमिमतिक्रम्य राजगृहे पुरोधानेऽअभ्येत्य मातरं तत्र मुक्त्वा कूपकण्ठे समागात् । लोकैरुक्तम्- यो मुद्रामिमां कूपोपकण्ठस्थः परिदधाति, तस्य सर्वमन्त्रि
For Private & Personal Use Only
09656
श्राश्रेणिकस्य मुख्यमन्त्रिगवेषण श्रीअभय
कुमार जन्मम्
॥ ३७ ॥
www.jainelibrary.org